SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ मनुष्यालयविधिः] एकत्रिंशोऽध्यायः । एकास्मन्नशुचौ सत्यां तन्मित्रेऽप्यशुचिः स्मृता । .. अनुसृत्योभयं मार्गमाचरेत् तदनापदि ॥ १४॥ . अथ देवालयतो विशेषमाह - रूपोत्तरस्य तु कापि क्षुद्रवाजनमिष्यते । अङ्ग्रेस्तथा मध्यखण्डमारूढं भूषणाय च ॥६५॥ . शिलाबद्धमसूरं च सुधामिलितभित्तिकम् । पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ।। ६६ ॥ प्राच्ये चाग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं व्यत्यस्य प्रकरोतु वा ब्यमिदं याम्येऽतिथिप्रीणनम् । पाश्चात्त्ये धनसंनिधापनमतो द्वन्द्वं विपर्यस्य वा । शेषार्धे तु तयोस्तथा शयनविद्याभ्यासनाधं चरेत् ॥६७ ।। माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके पर्जन्ये पचनालयं शिखिनि वा भुक्त्यालयं तत्पुरः । कर्तव्यं खलसद्म नैर्ऋतपदे कुर्वीत धान्यालयं गोशालाम्बुपतौ हरावपि समीरे धाम चौलूखलम् ॥ ६८॥ ग्रामादिषूक्तवत् सर्वमनुक्तं स्थानमाचरेत् । अथ दारं-- द्वारपादस्य बाहल्यं तुल्यमुत्तरमानतः ॥ ६९ ॥ स्वस्खयोन्या गृहादीनां कल्प्यन्तां द्वारयोनयः । प्रस्तरोचरयोर्मध्यं पबधा विभजेद् बुधः ।। ७.॥ द्वारायाम चतुर्भागमष्टसप्तांशमेव वा। शेषांशे द्वादशांशे तु पञ्चांशं गुल्फामिष्यते ॥१॥ DD
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy