SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठाविधिः] अष्टाविंशोऽध्यायः । दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् । प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः ॥ ७९ ॥ इति शिल्परने उत्तरभागे पीठादिलक्षणं नाम __सप्तविंशोऽध्यायः ।। अथाष्टाविंशोऽध्यायः। अथ प्रतिष्ठाविधिः। कुर्यात् प्रतिष्ठा सुमुहूर्तलने देवस्य मन्त्री सुसमाहितात्मा । बीजापुरारोपणमुख्यकर्म जालानि कृत्वोचितमूर्तिपान्वितः ॥ १ ॥ सर्वदिङ्मुखसद्धेषु सर्वदेवेषु सर्वदा । अदित्युदित्योः कर्तव्यं मङ्गलाङ्करमण्डपम् ॥ २॥ संवृतं पश्चिमहारं ध्वजयोनिगतं शुभम् । तुर्यश्रं वायतानं वा वितानपरिशोभितम् ॥ ३ ॥ पात्राणि वापविहितानि पृथग द्विषड् वा स्युः पालिकाश्च घटिकाश्च शरावकाश्च । तस्वाष्टिभानुभिरिह प्रतिमाङ्गुलैस्त दुत्सेधक्लप्तिरथ वाष्टिचतुर्दशाकैः ॥ ४ ॥ तत्त्वांशकोनमुदितोच्छ्यमत्र कृत्वा । षोढा द्वयेन वदने क्रमशः परांशः। तत्पीठ(दण्डगल)सन्धिगलेषु कुर्याद् दैयं पुरोविरहितेन च पीठसन्धौ ॥ ५ ॥ अङ्घयनमंशम(थ ? धि)पीठ(गृ? मि)हाधिदण्डं चैके समुच्छ्रयमुशन्त्यपरेऽर्धवृद्धिम् ।
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy