________________
१८५
शिरूपर पट्टमर्धेन कण्ठोऽशः कम्पोऽर्धनार्धमम्बुजम् । धंशं वाजनमर्धेन पा क्षेपणमर्धतः ॥ ३४ ॥ एतद्धि रुद्रकान्ताख्यं पीठमुक्तं सुशोभनम् । अतिधृत्यंशिते पीठे भागं भूगतमंशकौ ॥ ३५ ॥ व महाजं वेदांशै गधं वेत्रमंशतः। अर्घ गलं चार्धमजं वृत्तमध्यर्धतो भवेत् ॥ ३६ ॥ अर्धेनोव॑दलं कुर्याद् वेत्रमंशं धृगर्धतः । अंशेन वेत्रं सार्धाशैस्त्रिभिर्ध्वाम्बुजं भवेत् ।। ३७ ॥ अध्यर्ध घृतभृश्चेति सोमकान्तमुदीरितम् । पीठोचे षोडशांशे तु भागाभ्यां मूलपट्टिका ॥ ३८॥ महापद्मं तु वेदांशै●गर्धनांशतो गलम् । अर्धेन पद्मं वृत्तं तु (भागेनार्धन पङ्कजम् ॥ ३९ ॥ धृगर्धमूर्ध्वपमं तु) चतुर्भिरथ पट्टिका । वंशेन घृतभृत् प्रोक्तमेतत् सर्वाङ्गभद्रकम्॥ ४०॥ पीठोच्चे षोडशांशेऽश्विशरार्धेकार्धसागरैः । नेत्रेन्दुभिर्जगत्यब्जधृग्वेत्रं धृक् चपङ्कजम् ॥ ४१ ॥ पट्टिका चाज्यभृच्चेति श्रीकरे स्याद् यथाक्रमम् । एकस्मिन्नेव सा(शाज्जगत्यर्धेन कम्पकम् ॥ १२ ॥ (पट्टिकाधः स्ववेदांशात् सकम्पा पुष्टिवर्षने । पीठोदये षोडशांशे खुरं यंशमथार्धतः॥ १३ ॥ क्षेपणं सार्धवेदांशैः) पद्ममर्धन कम्पकम् । धृग वज्रमेकं स्यादृाजें वेदभागतः॥४॥