SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७० अथ ब्रह्मा शिल्परले [उत्तरभागः लिखेच्चतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् ॥ १२३ ॥ रत्नकुण्डलसंयुक्तं लम्बकूर्चोपवीतिनम् । कृष्णाजिनधरं गौरं शुक्लाम्बरविराजितम् ॥ १२४ ॥ दक्षिणं वरदं हस्तं तत्रान्यं शुभधोरिणम् । कमण्डलुधरं वामं तथान्यं संयुतं शुचा ॥ १२५ ॥ बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् । वामे पार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ॥ १२६ ॥ आज्यस्थाली पुरोभागे महर्षीश्च समन्ततः । हंसारूढं लिखेत् कापि कचिच्च कमलासनम् ॥ १२७ ॥ स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् । अथ कुमारः विलिखेत् षण्मुखं देवं मयूरवरवाहनम् ॥ १२८ ॥ तरुणादित्यसङ्काशं बालभूषणभूषितम् । स्थानीये खेटके वापि कुमारो लिख्यते यदा ॥ १२९ ॥ भुजा द्वादश कुर्वीत खर्वटे चतुरो भुजान् । ग्रामे वने द्विबाहुः स्याल्लेखनीयो विचक्षणैः ॥ १३० ॥ अथ नागः नागानां वक्ष्यते रूपं नाभेरूर्ध्वं नराकृति | सर्पाकारमधोभागं मस्तके भोगमण्डलम् ॥ १३१ ॥ एकं फणं त्रयं वापि पञ्च वा सप्त वा नव । द्विजिह्वास्ते विधातव्याः खड्गचर्मकरैर्युताः ॥ १३२ ॥ १. 'दा' ग. पाठ:. २. 'पद्मक' घ. पाठी.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy