SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १६४ शिल्परले [उत्तरमागः अर्थ कामः अरुणमरुणवासोमाल्यदामाङ्गरागं स्वकरकलितपाशं साङ्कुशास्त्रक्षुचापम् । मणिमयमकुटाचैर्दीप्तमाकल्पजालै ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ ८२ ॥ अपिच, रक्ताम्भोरुहसंस्थितं करतले कोदण्डमिक्षूद्भवं पुष्पास्त्रं वरदाभयौ च दधतं रक्ताङ्गरागादिकम् । वामाङ्कस्थितयोपगूढमनिशं रत्या च दत्तेक्षणं तहक्राम्बुरुहे मनोहरतनुं वन्दे सदा मन्मथम्॥ ८३ ॥ अथ वीरभद्रःगोक्षाराभं दधानं परशुडमरुको खड्गखेटौ कपालं शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् । वेतालारूढमुग्रं कपिशतरजटाबद्धशीतांशुखण्डं ध्यायेद् भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम् [॥ ८४ ॥ अथवा, सितपङ्कजमध्यसंस्थमेनं सुसितं व्याघ्रनखादिबालचिद्वैः। उपलक्षितबालभावमाशापरिधानं कमनीयगात्रयष्टिम्॥ ८५ ॥ अथ हनुमान् ---- पिङ्गाक्षं पिङ्गकेशं शशरुधिरनिकाशास्यदोःपादपद्म प्रोद्यन्मार्ताण्डकोटिप्रतिमतनुगलद्रश्मिभिर्दुनिरीक्ष्यम् । १. 'मदेवः । अ', २. 'मितत' घ. पाठः. -
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy