SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ शिरपरत्ने चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः । किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ ४१ ॥ अथ केशवाद्याः - सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः । काश्मीरमेघा जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः [ ॥ ४२ ॥ इतीरिताश्वापकिरीटहार केयूरपीताम्बर कादितुल्यम् । सचक्रशङ्खाः सगदाम्बुजाश्च संपूजनीयाः स्तवनैः क्रमेण [ ॥ ४३ ॥ बराहभेदः -- हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽस्तदाभम् । वायोः कृष्णं धुप्रभं वा दिविस्थं क्रोडव्याप्तं सत्यसंस्थं यजेद्वा ॥ ४४ ॥ विश्वरूपं विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्र केयूरहारग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासदिव्याङ्गरागम् । विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्यद् बाह्रग्रव्यग्रनानायुधनिकरधरं विश्वरूपं नमामि ॥४५॥ अथायुधानि - [ उत्तरभागः चक्रं च चक्राङ्किकिरीटमौलिं सचक्रशखं सगदं सशार्ङ्गम् । रक्ताम्बरं रक्ततनुं करालं दंष्ट्राननं प्राग्दलकेऽर्चयेत ॥ ४६ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy