SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 'वैष्णवे गायत्री ] त्रयोविंशोऽध्यायः । अक्षस्रग्वेद पाशाङ्कुशडमरुकखट्वाङ्गशूलान् कपालं बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः [ ॥ २०२ ॥ विद्युद्वर्णोऽथ वेदाभयवरदकुठारान् दधत् पूरुषाख्यः प्रोक्ताः सर्वे त्रिनेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च । मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शि[ वान्ताः ॥ २०३ ॥ इति शिल्परत्ने उत्तरभागे ध्याने शेवप्रकरणं नाम द्वाविंशोऽध्यायः ॥ >> अथ त्रयोविंशोऽध्यायः । अथ वैष्णवप्रकरणम् | अष्टाक्षरी अघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराजकेयूरं कौस्तुभाढ्यं शबलरुचिरहारं चारुपीताम्बरं च (?) । नानारत्नांशुभिन्नाभरणशतेयुजं श्रीधराश्लिष्टपार्श्व वन्दे दोः सचकाम्बुरुहदरगदं विश्ववन्धं मुकुन्दम् ॥ १॥ गायत्री १२३ wwwwwww ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ २ ॥ १. 'ल्पि', २. 'र', ३. 'चक्र' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy