SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रासादलक्षणम् ] षोडशोऽध्यायः। अत्यष्टिहस्तादारभ्य त्रिषष्टिककरात् ततः। छन्दानि पञ्च भौमादि भवन्त्यातलादिह ॥ २४॥ हिहिहस्तविवृद्धानां कनिष्ठाद्यष्टकत्रयम् । त्रयोदशकरव्यासात् पञ्चपञ्चाशदन्तकम् ॥ २५ ॥ द्विहस्तवर्धनात् प्राग्वद् विकल्पान्येकविंशतिः । एकादशकरात् सप्तपञ्चाशत्क(क)रान्तकम् ॥ २६ ॥ द्विहस्तवर्धनात् प्राग्वदूनविंशतिसंख्यया । चतुभीमादार्कभौममाभासाख्यानि तानि वै ॥ २७ ॥ विस्तारस्तम्भतो बाह्ये जन्मस्तूप्यन्तमुन्नतम् । केचिदाशिखरान्तं तु प्रवदन्ति समुन्नतम् ॥ २८ ॥ अथवा - प्रासादास्त्रितलादिभानुतलनिष्ठा जातयः स्थाणुसू र्याद्यैरोजसमैः करैः परिमिताश्चासप्ततेर्वधिताः । षोढा वह्नितलादयो यधममध्यश्रेष्ठक्लप्त्या पृथग् व्यासाद्रयंशगुणांशकाधिकसमुत्सेधाश्च ते प्रायशः ॥२९॥ विश्वेन्द्रायेषु षषष्टयसमसमकरैरब्धिभौमादयः स्यु श्छन्दा हस्तैनवाशादिभिरिषुरसपञ्चाशदन्तैर्विकल्पाः । पञ्चक्ष्माद्याश्च सर्वे प्रतितलमृतुभिन्ना विवस्वत्तलान्ता रुद्राकोनतानावधिभिरुदधिभूम्याद्यथाभाससंज्ञाः ॥ आभासेऽत्र चतुस्तलादिशिवभूम्यन्तं पृथग वेदभे दाढ्यं द्वादशमन्तिमं धधममध्यादिक्रमात् षड्भिदम् । षष्टिर्जातिगृहे भिदाः करवशाच्छन्दे षडूनास्ततः षट्कोनाश्च विकल्पधामनि तथाभासे दशोनास्ततः ।।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy