SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२८ शिरूपरसे [पूर्वभाग: अथावयवाः पृथ्व्या पादुकमंशतो जगतिकां वेदैर्गुणैः कैरवं तत्पट्टीगलकम्बुनिद्रवमपि क्ष्मापङ्गिभूमीन्दुभिः । कुर्वीत ज्वलनैः कपोतमिलयाग्रे पट्टिकां पङ्कजं नेत्राभ्यामपि सप्तविंशतिविभक्ते पीठिकाभ्युच्छ्रये ॥ १४ ॥ पीठोचे रदभेदिते सदल भूसार्घेषुबाणेन्दुभू दस्राः पादुकजागते कुमुदतत्पट्टयन्तरीषु प्रतौ । अंशा वेदयुगानि वेदिगलयोः सार्धं वलभ्युत्तरैदस्रौ चेति कपोतके शशिकराः स्युः पट्टिकापद्मयोः ॥ तत्तुङ्गे शक्करीद्वन्द्वभक्ते यंशेन पादुकम् । षडंशैर्जगतीं कुर्याद् बाणांशैः कुमुदोच्छ्रयम् ॥ १६ ॥ कम्पमेकांशतः कुर्यात् कण्ठं वेदैरुदाहृतम् । ऊर्ध्वकम्पं शिवांशेन महापट्टि गुणांशतः ॥ १७ ॥ पद्मतु द्विभागं तु द्विभागं कर्णिकोदयम् | महापट्टि द्विभागेन यदि वा कर्णिकां त्रिभिः ॥ १८ ॥ अथवोपान + + + महापट्टि द्विभागतः । पद्मचं पञ्चभागेन शेषं पूर्ववदेव हि ॥ १९ ॥ अथवा पीठिकोत्सेधेऽप्याथङ्गप्रक्रियोक्तवत् । उपानादिप्रस्तरान्तान्यङ्गान्यत्र समाचरेत् ॥ २० ॥ ततः कुर्यात् पीठिको पीठोत्सेधनिभागतः । पद्मं पद्मस्य विस्तारं तत्तद्योग्यं समाचरेत् ॥ २१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy