SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ बलिपीठलक्षणम्] त्रिचत्वारिंशोऽध्यायः। दण्डसीमा भवेत् तत्र विष्कम्भाभ्यन्तरे तथा ॥५॥ ब्रह्मसूत्राद् गतिस्तत्र बलिपीठस्य वामतः। एकद्विव्यङ्गुलैाथ चतुरङ्गुलतोऽपि वा ॥ ६ ॥ गर्भद्वारप्रतिसमं बाह्यद्वारस्य वा पुनः ।। प्रासादस्य प्रतिसमं बलिपीठसमुच्छ्रयम् ॥ ७॥ पूजापीठसमं तदधिरहितं गर्भप्रतिप्रोन्मितं प्रासादप्रतिसम्मितं च बलिपीठेऽब्जान्तिमाभ्युच्छ्यम् । उत्सेधे दशधा कृते सति निजेष्टे पीठिकाविस्तृतिं सप्तांशैर्विदधीत मूलनिलयौचित्यात् तदङ्गक्रियाम् ॥ ८॥ अन्तरालत्रिपादं वा प्रासादार्धमथापि वा । गर्भाध वाथ विस्तार गर्भगेहसमं तु वा ॥ ९ ॥ तत्पादोनं तु वा तारं बलिपीठेष्वथापि वा। एकहस्तं द्विहस्तं वा त्रिहस्तं वा समाचरेत् ॥१०॥ मूलद्वारोन्छ्य समं तत्रिपाददलं तु वा । अथवा द्वारविस्तारसमं वा द्विगुणं तु वा ॥ ११ ॥ त्रिगुणं वाथ विस्तारमधमादिक्रमेण तु । एतेषां बलिपीठानां तुझं तारसमं तु वा ॥ १२ ॥ पीठव्यासे तु षट्सप्तवसुनन्दविभाजिते । एकांशरहितं शेषं विदुस्तदुपपीठकम् ॥ १३ ॥ * 'षडंशरहितम्' इति तन्त्रसमुच्चयपाठः.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy