SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १५५ मण्डपलक्षणम् ] एकोनचत्वारिंशोऽध्यायः । गोत्रांशं वसुभागे वा रन्ध्रांशे वसुभागकम् । सुखमण्डपदीर्घ स्यान्नवधा परिकीर्तितम् ॥ २२ ॥ दीर्घमानेन तारं स्यात्तत्समं वार्धमेव वा। पञ्चांशे शिखिभागं वा सप्तांशे वेदभागकम् ॥ २३ ॥ ऊयेशं दशभागं वा मित्रांशे पञ्चभागकम् । इत्येवं विस्तृतं तेषामन्तरालं विधीयते ॥ २४ ॥ भिन्नसन्धावुत्तरादौ कोणेतरगते न्यसेत् । आधाराधेयभावेन मूलाग्रौ चाप्यधोत्तरम् ॥ २५ ।। इति शिल्परत्ने वृत्तषडश्रादिप्रासादलक्षणं नाम अष्टात्रिंशोऽध्यायः । अथ एकोनचत्वारिंशोऽध्यायः । अथ मण्डपम् । तत्र पूर्व मुखमण्डपं--- नेत्रेषुसप्तदशभानुभिरादिधाम्न स्तारं विभज्य विधुलोकयुगांशभूतैः । विस्तारमत्र रचयेन्मुखमण्डपस्य पादोनमर्धमथवा सममस्य दीर्घम् ॥ १ ॥ हर्म्यतारार्धमानं तु कन्यसं मुखमण्डपम्। . हर्म्यतारमुखं श्रेष्ठं त्रिपादं मध्यमं पुनः ।। २ ।।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy