SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चत्रिंशोऽध्यायः । अथ नासिकालक्षणम् । ललाटनासिका ख्याता शिखरे तारतः समा । शिखरस्य तु विस्तारे त्रिचतुष्पञ्चभाजिते ॥ १ ॥ नासिकातारमेकांशमुत्तमाधममध्यमम् । महानासीति विख्याता त्रिविधा स्याद् विमानके ॥ २ ॥ समं त्रिपादम वा निष्क्रमं तद्विशालतः । विस्तारत्रिचतुर्थांशहीन शेषं तदुच्छ्रयम् ॥ ३ ॥ गलादुपरि तत्तुङ्गं नासिकानां प्रकीर्तितम् | शक्तिध्वजं तदूर्ध्वे तु नासीतुङ्गार्धमेव वा ॥ ४ ॥ त्रिपादं वा त्रिभागैकभागं वा (स्यात्) तदुच्छ्रयम } तच्छक्तिध्वजतुङ्गे तु गुणभागविभाजिते ॥ ५ ॥ भागं वा किंपिरीवक्रं तच्छेषं तु गलोदयम् । दण्डं वा गलमानं स्याद् द्विदण्डं किंपिरीमुखम् ॥ ६ ॥ 9 एवं शक्तिध्वजं कार्य तदूर्ध्वे त्रिशिखं न्यसेत् । पत्र वा विन्यसेत् तत्र किं पिरीमुखमानतः ॥ ७ ॥ विस्तारमुख्यपट्ट्यास्तु दण्डं वाध्यर्धमेव वा । तीव्रं तदष्टभागं वा कर्णकोचं तु तत्ततिः ॥ ८ ॥ वल्लीमण्डलचित्राद्यैर्भूषयेन्मुखपट्टिकाम् । मुखपट्टथवशेषं तदवगाढमुदाहृतम् ॥ ९ ॥ अवगाढाख्यभागं तु मृणालादिविभूषितम् । शूलाभं वा स्थलाभं वा सव्यालं वा सनाटकम् ॥ १० ॥ १. 'फि' स्व. पाठ.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy