SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६९ - शिल्परले [पूर्वभागः तझेदः-- बाह्योत्तरेण रहिते विगतोलकूटे ग्रीवान्तरे निजगजांशकृशाग्रकुड्ये । न्यस्योत्तरं न्यसतु तत्र लुपास्तुलास्थपादेषु लग्नशिरसश्चरणार्धलम्बाः ॥ १८ ॥ इति शिल्परले गलविन्यासलक्षणं नाम एकत्रिंशोऽध्यायः। अथ द्वात्रिंशोऽध्यायः। अथ शिखरम् । तारात् पञ्चहिभागं वा नवसप्तांशमेव वा। त्रयोदशांशरुद्रांशं विमानानां विभागतः ॥ १॥ अत्यष्टितिथिभागं वा वेदरामांशकं तु वा । षट्पञ्चांशं तु वा नागसप्तभागमथापि वा ॥ २ ॥ विस्तारार्धे तु वा कुर्यादष्टधा शिखरोदयम् । वैदेहं मागधं चापि कौरवं कौसलं तथा ॥ ३ ॥ शौरसेनं च गान्धारं क्रमेणावन्तिकं स्मृतम् । व्यासार्ध शिखरोत्सेधं कि(श्चि)न्न्यूनं च मानुषम् ॥ ४॥ व्यासार्ध तुङ्गमायं तु तत्तुङ्गे सप्तभाजिते । एकैकांशविवृद्धयाष्टौ भवन्ति शिखरोदयाः ॥ ५ ॥ व्यामिश्रकं कलिङ्गं च तथा काशिकमेव च । वैराटं द्राविडं चैव बाल्हिकं कौल्लकं पुनः ॥ ६ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy