SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ गलविन्यासलक्षणम् । एकत्रिंशोऽध्यायः । गोपानं कल्पयेदृर्ध्वमवरोहणमेव वा । गलादुत्तरनिष्क्रान्तं तदुच्चदलतो भवेत् ॥ ११ ॥ वाजनादेस्तु निष्क्रान्तं यथापूर्व स्वतुङ्गतः । अथान्यथा वेदिकाद्विगुणोऽध्यर्धसमो वा स्याद् गलोदयः । भित्तिविस्तारनामांशं वेदिकावेशनं भवेत् ॥ १२॥ ग्रीवावेशं तदूर्व स्थाच्छरांशोनोऽपि तत्समः । मृणालिकावक्रपादभूतहंसमृगैरपि ॥ १३ ।। व्यालनाट्यकथाभिर्वा गलभूषणमाचरेत् । कूटकोष्ठमहानासिपञ्जराद्यैरथापि वा ॥ १४ ॥ अथ प्रकारान्तरं -- ग्रीवायामुपरि त्रिदण्डपरिशिष्टांशे चतुर्भाजिते मूलांशं च तृतीयकं च दशधा तुर्य च कृत्वांशकम् । आलिङ्गाह्वयपट्टिका त्रिभिरुभाभ्यामन्तरी पञ्चभिः स्वद्व्यंशाहितवाजनां प्रतिमधः पङ्क्त्यंशके कल्पयेत् ।। शालाकूटगवाक्षकादिरुचिरां भित्तिं द्वितीये तृती. येऽशे पश्चभिरुत्तरं च वलभिं भूतद्विपायुज्ज्वला । तुर्येऽशे दशभिईिक्लप्तमुखपट्ट्याढ्यं कपोतं ततः सस्वाचि गृहपिण्डिमूर्ध्वनिहितैर्दण्डैस्त्रिभिः कल्पयेत् ॥ तले द्वितीये विदिशासु कूटान् दिशासु शालाश्च तदन्तरेषु । नासीदिशो वा रचयेद् दिशासु मूतीरजाद्याःशिखरेषु नासीः ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy