SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ शिल्परले [ पूर्वभागे कुम्भलताविधानम् ] विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात् । पत्रैर्विनिर्गतैश्वित्रं यथाशोभं नियोजयेत् ॥ ३ ॥ तदूर्ध्वे कुड्यचरणसमपादाम्बुजासनम् । अखण्डकलशं कुर्यात् पद्मं कुम्भलतान्वितम् ॥ ४ ॥ तस्याः कुम्भलतासंज्ञा सैव खण्डोपरि क्रमात् । नक्रतोरणविन्यस्ता स्तम्भकुम्भलता मता ॥ ५ ॥ कुम्भपद्मासनयता सैव सर्वलतान्विता । पद्मकुम्भलता नाम विज्ञेयानिलता मता ( ? ) ॥ ६ ॥ स्तम्भमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् । पद्मोचं वसुधाभज्य कम्पमंशेन कारयेत् ॥ ७ ॥ १५४ अधःपद्मं गुणांशेन गलमेकांशमानतः । ऊर्ध्वपद्मं द्विभागेन कम्पमेकेन कल्पयेत् ॥ ८ ॥ तदूर्ध्वं कुम्भतुङ्गं तु पद्मस्योच्चसमं भवेत् । तत्तुङ्गद्विगुणा कुम्भलता वा ह्यन्यथाथवा ॥ ९ ॥ तदेवोत्सन्धिकोर्ध्वे तु वीरकाण्डं प्रकल्पयेत् । बोधिकारहितं यत्तत्स्तम्भाधारलता स्मृता ॥ १० ॥ स्तम्भतोरणवन्मूर्ध्नि कर्तव्या कुम्भगा लता । इति शिल्परत्ने कुम्भलताविधानं नाम अष्टाविंशोऽध्यायः ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy