SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अथ सप्तविंशोऽध्यायः । अथ तृचस्फुटितकम् | षडङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । ( तावत् ) कलावधिर्यावद् व्यासः स्यात् षड्विधोऽस्य तु । विस्तारार्धं तु तन्नी त्रियंशं वा त्रिभागिकम् । वृत्ताकारं समाद्यन्तं तोरणाङ्घ्रिवदार्यतम् ॥ २ ॥ सकलं तत्तदूर्ध्वे तु शुकनास्यन्वितं तु वा । कर्णकूटाकृतिर्वाथ वृत्ताकारं प्रकल्पयेत् ॥ ३ ॥ स्तोत्सेधयुगांशे तु द्विभागं चरणायतम् । कन्धरोदयमेकांशं शुकनास्यंशतो भवेत् ॥ ४॥ तदेव कूटमानं तु तत्तद्योग्य वशान्नयेत् । इति शिल्परत्ने वृत्तस्फुटितकलक्षणं नाम सप्तविंशोऽध्यायः । अथ अष्टाविंशोऽध्यायः । अथ कुम्भलता | स्तम्भान्तरे महति धामनि पादविस्तारोच्चाधिपादततपद्मगकुम्भसंस्थाम् । पादायतां घटमुखोद्गतपत्रचित्र मूलां प्रकल्पयतु कुम्भलतां समन्तात् ॥ १ ॥ कुड्यस्तम्भस्य विस्ताराद् द्विगुणं चार्धमुच्छ्रयम् । अथ पद्मासनं कुर्यात् तत्तदूर्ध्वे यथारुचि ॥ २ ॥ १. 'यु' ख. पाठः.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy