SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रामाकरमतम् ] शक्तिवादः । (१९७) संबन्धितावच्छेदकहस्तित्वादिसंबन्धाग्रहेपि हस्त्यादिसंबन्धिहस्तिपकादिज्ञानास्मकोदोधकबलाद् हस्त्यादिस्मरणे हस्तित्वादेः प्रकारतया भानवद् व्यक्तिसंबन्धज्ञानमन्तरेणापि जातिसम्बन्धिपदज्ञानाजातिस्मरणे व्यक्तर्विशेष्यतया भाने विरो• धविरहात् । तद्धर्मप्रकारकस्मृतौ तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानस्य हेतुतायामऽदृष्टादिरूपोद्धोधकजनितस्मृतौ व्यभिचारवारणाय कार्यतावच्छेदकसंकोचस्यावश्यकतया तत एव प्रकृते व्यभिचारानवकाशात् । उक्ते उदाहरणमाह- संबन्धितेति, यथा — हस्ती हस्तिपकसंबन्धी ' इत्यत्र संबन्धितावच्छेदकं यद् हस्तित्वं तेन सह हस्तिपकसंबन्धस्याऽग्रहेपि हस्तिसंबन्धिहस्तिपकदर्शनरूपं यद् हस्तिस्मरणोद्बोधकं तस्माद् हस्तिस्मरणे जाते तादृशस्मरणे हस्तित्वं प्रकारतया भासते तथा पदस्य व्यक्त्या सह शक्तिरूपसंबन्धस्य ज्ञानामावेपि जातिसंबन्धिपदज्ञानात्-जातिशक्तपदज्ञानाजाति. स्मरणे जाते तादृशस्मरणे व्यक्तेर्जातिविशेष्यतया माने विरोधाभावादित्यर्थः । ननु यदुक्तम् ‘जातिशक्तपदज्ञानाजायमानजातिस्मरणे जातिविशेष्यतया व्यक्तेर्भाने विरोधो नास्ति ' तन संभवति- तद्धर्मप्रकारकस्मृतौ तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानम्य हेतुत्वनियमाद् यथा हस्तित्वप्रकारकस्मरणं प्रति हस्तित्वावच्छिन्नहस्तिसंबन्धितया गृहीतं यद् वस्तु हस्तिपकस्तज्ज्ञानस्य कारणत्वमस्ति तथा च प्रकृते यदि गोत्वावच्छिन्नगोशक्ततया गोपदं ज्ञातं स्यात्तदा तादृशपदज्ञानाद्वोत्वप्रकारकं व्यक्तिविशेष्यकं स्मरण स्यादपि न चैवमस्ति केवलजातो त्वया शक्तिस्वीकारेण व्यक्तौ शक्तेरभावात् पदेन सह व्यक्तेः शक्तिरूपसम्बन्धाभावात, केवलजातिशक्तिपदज्ञानादप्युक्तजातिप्रकारकव्यक्तिविशेष्यकस्मरणस्वीकारे चात्रोक्तनियमस्य व्यभिचारः स्थादित्याशङ्क्याह- तद्धर्मेति, तद्धर्मेत्याद्युक्तनियमस्वीकारेपि यत्रादृष्टादिरूपोद्बोधकबलाजाति. प्रकारकव्यक्तिविशेष्यकम्मरणं जायते तत्र जात्यवच्छिन्नव्यक्तिसम्बन्धितया गृहीतवस्तुज्ञानस्याभावादुक्तनियमस्य व्यभिचारः प्राप्नोत्येवेति तादृशव्यभिचारवारणाय कार्यतावच्छेदकस्यावश्यं संकोचः कर्तव्य एव यथा 'तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानादऽव्यवहितोत्तरजायमानस्मरणं प्रति तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानं कारणम्' एवं चादृष्टादिरूपोद्बोधकजन्यस्मरणे तद्धर्मावच्छिन्नसम्बन्धितया गृहीतवस्तुज्ञानादव्यवहितोत्तरत्वाभावात् तादृशस्मरणं प्रति तद्धर्मावच्छिन्नसम्बन्धितया गृहीतवस्तुज्ञानं कारणमेव नास्तीति न तत्रैतादृशनियमस्य व्यभिचार इति ततः उक्तकार्यतावच्छेदकसंकोचादेव प्रकृते पदज्ञानाजायमानजातिप्रकारकव्यक्तिविशेष्यकस्मरणेप्युक्तनियमस्य व्यभिचारो नास्त्येव जातिशक्तपदज्ञानाजायमाने जातिप्रकारकव्यक्तिविशेध्यकस्मरणे तद्धर्मावच्छिन्नसंबन्धितया गृहीतवस्तुज्ञानादव्यवहितोत्तरत्वस्याभावात् तादृशस्मरणंप्रति तद्धर्मावच्छिन्नसम्बंधितया गृहीतवस्तुज्ञानस्य कारणत्वाभावात्, तदव्यवहितोत्तरजायमानस्मरणं प्रत्येव तस्य कारणत्वादित्यर्थः ।
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy