SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सर्वपदम् .] शक्तिवादः । (१४३) विधेयवाचकपदसमानाधिकरणसर्वपदस्य च विधयतावच्छेदकव्यापकोद्देश्यतावच्छेदकावच्छिन्नसंबन्धव्याप्यपर्याप्तिकं यावत्वमर्थः. अतः 'काले सर्व वृत्तिमन्तः' 'काला सर्वधर्मवान्' इत्यादौ सर्वपदेन वृत्तिमत्वादिव्यापककालादिसंबन्धव्याप्यपर्याप्तिकं यावत्वं प्रतीयते । अथ वा स्वार्थान्वयितावच्छेदकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयितावच्छेदकधर्मावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नं सर्वपदार्थ इत्युद्देश्यविधेयभावं विह-इयं चेति । इयम्="उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः सर्वपदप्रवृत्तिनिर्मितम् १३८ " इत्याधुक्ता व्युत्पत्तिः । 'पृथिव्यां सर्वाणि रूपाणि ' इत्यादिविधेयवाचकपदसमानाधिकरणसर्वपदस्य व्युत्पत्तिमाहविधेयवाचकेति । विधेयतावच्छेदकच्यापिका उद्देश्यतावच्छेदकावच्छिन्नसंबन्धन्याप्या च या पर्याप्तिस्तादृशपयोक्तिवद् यावत्त्वं विधेयवाचकपदसमानाधिकरणसर्वपदस्य प्रवृत्तिनिमित्तमित्यन्वयः। उदाहरणं तत्र समन्वयं चाह- अत इति । अत्र विधेयतावच्छेदकव्यापकत्वं हि विधेयतावच्छेदकसमानाधिकरणमेदप्रतियोगितानवच्छेदकत्वरूपं ग्राह्यम् । उद्देश्यतावच्छेदकावच्छिन्नसंबन्धश्चीदेश्यानुयोगिकविधेयतावच्छेदकसंबन्धः स चोक्तस्थलयोः कालिकसंबन्धरूपः, रूपस्य विधेयत्वे समवायसंबन्धः । तादृशसंबन्धव्याप्यत्वं च तदभाववदवृत्तित्वरूपं ग्राह्यं किं वा पूर्ववद् व्यभिचारित्वसंबन्धावच्छिन्नप्रतियोगिताकतत्तदुद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिताकतत्तदुद्देश्याभाववस्वरूपं ग्राह्य तथा च 'प्रमेयत्वं सर्वान्वयि ' इत्यादिकेवलान्वय्युद्देश्यकस्थले अन्वयित्वव्यापकयावत्त्वपर्याप्तौ प्रमेयत्वसंबन्धव्याप्यत्वभानस्य नानुपपत्तिः । एवम् ' द्रव्ये सर्वाणि रूपाणि ' * पृथिव्यां सर्वाणि रूपाणि' इत्यादौ रूपव्यापकपृथिवीत्वादिव्याप्यपर्याप्तिकयावत्वं सर्वपदेन प्रतीयते- रूपव्यापकपर्याप्तेः पृथिवीत्वादिव्याप्यत्वादिति । उत्तरोत्योद्देश्यवाचकपदसमानाधिकरणसर्वपदस्य विधेयवाचकपदसमानाधिकरणसर्वपदस्य च पृथक् पृथग् व्युत्पत्तिमुक्त्वा लाघवाय तदुभयसाधरणामेका व्युत्पत्तिसाह-- अथ वेति । स्वार्थः सर्वपदार्थः । 'सर्वे घटा रूपवन्तः' इत्यत्र स्वार्थस्य घटे उद्देश्येऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो घटत्वं तद्व्यापिका तथा तादृशधर्मावच्छिन्नस्य स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नस्य नामोद्देश्यस्य योऽन्वयितावच्छेदकधर्म: विधेयतावच्छेदकधर्मो रूपत्वं तदवच्छिन्नव्याप्या या पर्या: प्तिस्तादृशपर्याप्तिको यो ध यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र घटस्याधेयतासंबन्धेन रूपेऽन्वयो भवतीत्युद्देश्यस्य घटस्यान्वयितावच्छेदकधर्मों रूपत्वमिति ज्ञेयम् । 'पृथिव्यां सर्वाणि रूपाणि' इत्यत्र सर्वपदार्थस्य रूपेऽन्वयोस्तीति स्वार्थान्वयितावच्छेदकधर्मो रूपत्वं तद्व्यापिका तथा रूपत्वावच्छिन्नस्यान्वयितावच्छेदकधर्मः पृथिवीत्वं तदवच्छिन्नव्याप्या या पर्याप्तिस्तादृशपर्याप्तिको यो धर्मो यावत्त्वं तदवच्छिन्नं सर्वपदार्थः, अत्र रूपसमुदायस्य पृथिव्यामन्वयात् तदन्व
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy