SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सर्वपदम्. } शक्तिवादः। ये ये तादृशभेदास्तभेदकूटस्य च दुरवगमतया तद्विशेषणेन द्वित्वाद्यवच्छिन्नभेदश्यावृत्तेराप हेयत्वात्। अस्तु वा यथाकथंचित् तव्यावृत्तिः, तथाप्यनेकत्वमात्रस्य सर्वपदार्थत्वेघटस्थापि स्वाभावप्रतियोगित्वात तवृत्तितद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेदस्यापि प्रतियो. भिवृत्तित्वमेव स्यान्न तु प्रतियोग्यवृत्तित्वमित्यर्थः । ननु ग्राह्यमेदे न सामान्यतः प्रतियोगिवृत्त्यन्यावमुच्यते येन पुनरप्यसंभवः स्यात् किं तु स्वप्रतियोगिवृत्त्यन्यत्वमेव तथा च द्वित्वावच्छिन्नप्रतियोगिताकभेदस्तु स्त्रप्रतियोगिवृत्तिरेव भवतीति न तादृशभेदमादाय सर्व गगनम् ' इतिप्रयोगापत्तिः, तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्तु स्वप्रतियोगिवृत्तिर्न भवति- तन्नीलघटव्यक्तिमेदस्य तन्नीलवटव्यक्तावसंभवादिति- तादृशभेदप्रतियोगित्वरूपानेकत्वस्य घटेषु संमवास्तू 'सर्वे घटाः । इतित्रयोगस्यानुपपत्तिरपि नास्तीत्याशङ्कयाह- स्वप्रतियोगीति, विशिष्टबुद्धी विशेषणज्ञानस्य कारणत्वनियमात् स्वप्रतियोगिवृत्तिभेदान्यभेदग्रहणे स्वप्रतियोगिवृत्तयो ये ये तादशभेदाः द्वित्वावच्छिन्न प्रतियोगिताकभेदास्तेषां सर्वेषामेव ज्ञानापेक्षा प्राप्ता तादृशमेदानां कूट:समुदायश्च दुरवगम एव- अनन्तत्वादिति तद्विशेषणेन-स्वप्रतियोगिवृत्त्यन्यत्वविशेषणेन द्वित्वावच्छिन्नप्रतियोगिताकमेदव्यावृत्तिरपि नैव युक्ता- अत्र पक्षे स्वप्रतियोगिवृत्त्यनन्तद्वित्वावच्छिन्नभेदज्ञानापेक्षापत्त्या गौरवात् तथा च द्वित्वावच्छिन्नप्रतियोगिताकभेदव्यावृत्तेरुक्तरीत्याप्य. संभावात्तादृशमेदमादाय — सर्व गगनम् । इतिप्रयोगः स्यादेवेत्यर्थः । केनचित्प्रकारान्तरेण द्वित्वावच्छिन्नप्रतियोगिताकभेदव्यावृत्तिमभ्युपगम्याह- अस्तु वेति । तद्व्यावृत्तिः-द्वित्वावच्छिनप्रतियोगिताकमेदव्यावृत्तिः । यथा कथंचिदिति- तथा हि स्वसामानाधिकरण्यस्वप्रतियोगितासामानाधिकरण्यैतदुभयसंबन्धेन भेदविशिष्टो यो भेदस्तादृशभेदान्यभेदप्रति. योगित्वमनेकत्वं सर्वपदार्थः, अत्र स्वपदाभ्यां भेदो ग्राह्यः, उक्तोभयसंबन्धेन भेदविशिष्टः स्वविशिष्टो भेदो द्वित्वावच्छिन्नप्रतियोगिताकभेद एव भवति गगननिष्ठे घटगगनोभयभेदे स्वसामानाधिकरण्यमप्यस्ति गगने तादृशभेदप्रतियोगितायाः सत्त्वात् स्वप्रतियोगितासामानाधिकरण्यभप्य. स्तीत्येतादृशोभयसंबन्धेन भेदविशिष्टो भेदो द्वित्वावच्छिन्न प्रतियोगिताकभेद एव भवति स चात्र प्राह्यभेदबोधकभेदपदेन न ग्राह्यो येन तादृशद्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय · सर्व गगनम् ' इतिप्रयोगापत्तिः स्यात् किं तु तादृशभेदान्यभेदो ग्राह्यः स च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेद एव तादृशभेदप्रतियोगिल्वरूपमनेकत्वं घटेवस्त्येवेति — सर्वे घटाः' इतिप्रयोगस्यानुपपत्तिरपि नास्ति, तद्व्यक्तित्वावच्छिनप्रतियोगिताकभेदस्तु स्वप्रतियोगितासमानाधिकरणो न भवति-- स्वप्रतियोग्यऽवृत्तित्वादित्युक्तोभयसंबन्धेन भेदविशिष्टभेदस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदो न भवति, अत्र स्वपदार्थस्य च संबन्धे निवेशेनाऽननुगमोपि नास्त्येवेत्येवंरीत्या 'द्वित्वावच्छिनप्रतियोगिताकभेदस्य व्यावृत्तिः संभवतीत्यर्थः । अत्रापि दोषमुद्घाटयति- तथापीति, यद्यप्युक्तरीत्या द्वित्वावच्छिन्नप्रतियोगिताकभेदस्य व्यावृत्तिः संभवति तथापीत्यन्वयः ।
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy