SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सर्वपदम्.] शक्तिवादः। (१९७) यत्र विधेयता तत्र विधेयशून्यत्वस्या प्रसिद्धेः, यत्र वा विधेयशून्ये उद्देश्यतावच्छेदकीयसंबन्धविशेषेण वृत्तरप्रसिद्धिः ' सर्वे घटा जातिमन्तः ' इत्यादौ तत्र गत्यन्तराभावापत्तेः। पदान्तरादुपस्थिते उद्देश्यतावच्छेदकघटत्वादिविशिष्टे सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्याचवच्छिन्नस्य कथंचिदन्वयसंभवेप्यनुभवविरोधाच्च, कम्-विधेयोद्देश्यतावच्छेदकं घटस्वादिकं तद्वत्त्वमेवाशेषत्वं तथा च प्रकृते घटत्वं रूपवत्तरहिताकाशादिवृत्ति न भवतीति तादृशघटत्वादिरूपोद्देश्यतावच्छेदकवत्त्वमेव बटानामशेषत्वमिति प्राप्तं तदपि न युक्तमित्यर्थः, उक्ते हेतुमाह- केवलेति, ' अत्यन्ताभावाप्रतियोगित्वं केवलान्चयित्वम् । केवलान्वयिनः प्रमेयत्वादेयंत्र — सर्वे घटाः प्रमेयाः ' इत्यादिस्थले विधेयत्वं भवति तत्र विधेयं यत् प्रमेयत्वं तच्छून्यत्वं कचिदपि प्रसिद्धं नास्ति- सर्वस्यैव प्रमेयत्वाद् विशिष्टबुद्धौ च विशेषणज्ञानं कारणमिति विशेषणीभूतप्रमेयत्वशून्यस्य ज्ञानामावे प्रमेयत्वगून्यावृत्त्युद्देश्यतावच्छेदकवत्त्वरूपाशेषत्वस्यापि ज्ञानं न संभवतीति नायं पक्षो युक्त इत्यर्थः । उक्ताशेषत्वपक्षे दोषान्तरमाह- यत्र वेति, ' सर्वे घटा जातिमन्तः' इत्यत्र घटत्वावच्छिन्नमुद्दिश्य घटत्वादिजातिमत्त्वं विधीयते, उक्ताशेषत्वलक्षणे चोद्देश्यतावच्छेदकसंबन्धेनैवोद्देश्यतावच्छेदकवत्वमिष्टं न तु कालिकादिसंबन्धेनापि प्रकृते चोद्देश्यतावच्छेदकसंबन्धः समवाय एव घटत्वादेः समवायेनैव भटादौ वर्तमानत्वात् ' सर्वे घटा जातिमन्तः । इत्यत्र विधेयं यजातिमत्त्वं तच्छ्न्यं जात्यादिकमेव भवति विधेयशून्ये तादृशजात्यादौ चोद्देश्यतावच्छेदकीभूतेन समवायसंबन्धेन कस्यापि पदार्थस्य वृत्तिरेव नास्तीति तत्र= सर्वे घटा जातिमन्तः । इत्यादावुक्ताशेषत्वभानस्य गतिरेव नास्तीति नायं पक्षो युक्त इत्यर्थः । उदेश्यतावच्छेदके यद् विधेयशून्यावृत्तित्वं तद् उद्देश्यतावच्छेदकसंब-- न्धेन विधेयशून्यवृत्तित्वाभाव एव विधेयशून्यवृत्तित्वाभावप्रतियोगित्वं वा तत्रोद्देश्यतावच्छेदकसंब-- न्धन विधेयशून्यजात्यादौ वृत्तित्वस्याऽप्रसिद्धौ तादृशवृत्तित्वाभावादिबोधोपि न संभवति विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादितिभावः। ___ दोषान्तरमाह- पदान्तरादिति, — सर्वे घटाः' इत्यत्र घटपदस्यापि घटबोधकत्वात् सर्वपदार्थस्याप्याभेदेन घटे एवान्वयस्वीकारेण सर्वपदस्यापि घटबोधकत्वापत्त्या 'घटो घटः' इत्य. व प्रथमं शाब्दबोधानुपपत्तिरेव दोषः, एतादृशदोषस्य विशेषणांशेऽधिकावगाहिशान्दबोध-- स्वीकारेण यथा ' नीलघटो घटः ' इत्यत्र घटपदेन घटस्थ घटत्वेन रूपेण नीलघट इतिविशे. षणपदाच नीलघटत्वेन नाम नीलत्वसमानाधिकरणघटत्वेनोपस्थितौ जातायां घटे नीलघटस्याभेदेनान्वयस्तद्वोधश्च जायते तथा प्रकृते घटपदाद् घटत्वेन रूपेण सर्वपदाच सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्वेन' रूपेण घटोपस्थितौ जातायां पदान्तरात घटपदादुपस्थिते उद्देश्यतावच्छेदकं यद् घटत्वादिकं तद्विशिष्टे घटादौ सर्वपदोपस्थाप्यविधेयव्याप्तिविशिष्टघटत्वाचवच्छिमस्याभेदेन कथंचिदन्वयसंभवेन निरासे कृतेप्यऽनुभवविरोधस्त्वऽस्त्येव-- नीलघटो घटः '
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy