SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ युष्मदस्मत्पदे. शक्तिवादः । ( १२३) इत्यादिवाक्यात् चैत्रं बोधयितु प्रयुक्तात् त्वं गच्छ' इत्यादिवाक्याच्चोच्चारयितत्वसंबोध्यत्वभ्रमं विना मैत्रादिबोधस्य सर्वानुभवविरुद्धत्वात, अन्यथा तात्पर्येण स्वरसत एव तथाप्रयोगापत्तेः। इदं तु तत्त्वम्- 'अयमहं पण्डित इति जानाति' 'इत्युवाच' इत्यादिस्थले सर्वत्र वाक्यार्थस्य कर्मता न संभवति- बाधितवाक्यार्थस्थले तदसंभवात् । न च बाधितवाक्यार्थस्थले भ्रमरूपैव तत्कर्मत्वप्रतीतिरितिवाच्यम्, विशेषदर्शिनापि भ्रान्तिज्ञेन तथाप्रयोगात् तस्य च वाक्यार्थज्ञानासंभवेन तदनुपपत्तेः ।। प्रयुक्तं यत् ‘त्वं गच्छ' इतिवाक्यं तद्बटकत्वंपदेन वक्तृतात्पर्यसत्त्वेपि संबोध्यत्वभ्रमं विना मैत्रबोधः सर्वानुभवविरुद्ध एवेति संबोध्यतावच्छेदकावच्छिन्ने एव युष्मत्पदस्य शक्तिर्युक्ता तथा चात्र संबोध्यत्वाभावान्न त्वंपदेन मैत्रबोधापत्तिः, बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तौ तु संबोध्यत्वभ्रमं विनाप्यत्र त्वंपदेन मैत्रबोधः स्यादेव- मैत्रम्यापि बुद्धिविषयतावच्छेदकरूपावच्छिन्नत्वादित्यर्थः । विपक्षे बाधकमाह-अन्यथेति, यदि बुद्धिविषयतावच्छेदकरूपावच्छिन्ने युष्मदस्मत्पदयोरपि शक्तिः स्यात्तदा मैत्रबोधतात्पर्येण स्वरसत एव चैत्र: 'अहं करोमि' इतिप्रयोगं कुर्यात् स्वात्मबोधतात्पर्येण च मैत्रः 'त्वं गच्छ' इतिप्रयोगं कुर्याद् न चैतदिष्टमिति न युष्मदस्मत्पदयोर्बुद्धिविषयतावच्छेदकरूपावच्छिन्ने शक्तिरित्यर्थः । पूर्वत्र मैत्र उच्चारयितेति भ्रमे उच्चारयितृत्वभ्रमः उत्तरत्र. मैत्रः सम्बोध्य इतिभ्रमे संबोध्यत्वभ्रमो विज्ञेयः- वस्तुतश्चैत्रस्यैवोच्चारयितृत्वात् संबोध्यत्वाञ्चेति । अवशिष्ट कंचिद्विशेषमाह- इदमित्यादिना । 'अयमहं पण्डितः' इत्यादियुष्मदस्मदर्थघटितवाक्यार्थस्य यत् ‘इतिजानाति' इत्यादिवाश्यान्तरस्थक्रियायां कर्मत्वमुक्तं तत् सर्वत्र न संभवति-- युष्मदस्मदर्थवटितवाक्यार्थस्य बाधितत्वस्थले तदसंभवात् कर्मत्वासंभवाद् अबाधितस्यैव कर्मत्वादि. संभवादिति तादृशबाधितवाक्यार्थस्थले तादृशवाक्याच्छाब्दबोधानुपपत्तिरित्यर्थः । मूर्खमुद्दिश्य यत्र 'अयमहं पण्डित इति जानाति' इत्युच्यते 'बन्ध्यासुतो मया दृष्ट इति देवदत्त उवाच' इत्यादि च यदुच्यते तत्र वाक्यार्थम्य बाधितत्वं विज्ञेयम् । ननु बाधितार्थविषयापि भ्रमरूपा प्रतातिर्भवत्येवेति बाधितवाक्यार्थस्थले भ्रमरूपया तत्कर्मत्वप्रतीत्या न वाक्यार्थबोधानुपपत्तिरित्याश क्याह- न चेति । परिहारहेतुमाह- विशेषेति, उक्तरीत्या भ्रान्तस्य वाक्यार्थबोधसंभवेपि विशेषदर्शिना='नायं पण्डितः' इत्याकारकपाण्डित्याभावविषयकविशेषज्ञानवतापि भ्रान्तिज्ञेन-मूर्खस्य या स्वात्मनि पाण्डित्यभ्रान्तिस्तादृशभ्रान्तिझेन तथा='अयमहं पण्डित इति जानाति' इत्याकारो मूर्खमुद्दिश्य प्रयोगः क्रियते एव तन्न च तम्य=उक्तान्तिज्ञस्य वाक्यार्थविषयकबाधितत्वज्ञानाद् वाक्यार्थज्ञानासम्भवेन तम्य कर्मत्यानुपपत्तिस्तादृशवाक्यार्थबोधानुपपत्तिश्चेत्यर्थः । ननु यथा “एकत्र द्वयम्' इतिरीत्या विशेषदर्शी 'अयं लोहितं वहिं जानाति ' इतिप्रयुङ्क्ते तत्र ववेः शुक्लत्वाद् वह्नौ लोहितत्वं नास्त्येवेति ज्ञानसत्त्वेपि जपापुष्पे लोहितत्वमस्तीति 'लोहितं
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy