SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ( १११) युष्मदस्मत्यदे. ] शक्तिवादः। युष्मदस्मत्स्थलेऽपीदृश्येव गतिश्चिन्तनीया । भय युष्मदस्मत्पदे. संप्रति युष्मदस्मत्पदयोः शक्तिनिरूपणमारभते- युष्मदस्मदित्यादिना । तत्पदोतरीतिमत्राप्यतिदिशति- ईदृश्येवेति, तथा च युष्मत्पदस्थले 'स्वघटितवाक्यजन्यबोधाश्रयत्वेनेच्छोद्देश्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्न विषयकत्वस्वजन्यत्वैतदुभयसंबन्धेन युष्मत्पदविशिष्टो बोधो म. वतु' इत्याकारको युष्मत्पदप्रकारको बोधविशेष्यकश्च भगवत्संकेतः पूर्ववत् स्वीकार्यः, भत्र स्वं युष्मत्पदं तद्धटितं यदू वाक्यम् 'चैत्र त्वं गच्छ' इतिवाक्यं तजन्यो यो बोधस्तदाश्रयत्वेन योचारयितुरिच्छा 'मदुक्तवाक्यजन्यबोधाश्रयश्चैत्रो भवतु' इतीच्छा तादृशेच्छोद्देश्यश्चैत्र एव-उद्देश्यतावच्छेदकं चैत्रत्वं तद्वृत्ति यदुद्देश्यतावच्छेदकत्वं तदुपलक्षितो धर्मश्चैत्रत्वमेव तवच्छिन्नो यश्चैत्रस्तद्विषयकत्वमपि युष्मत्पदजन्यबोधेस्ति त्वंपदेन चैत्रस्यैव प्रतिपादनात् स्वजन्यत्वम्-युमत्पदजन्यत्वमप्यस्तीत्येतदुभयसंबन्धेन युष्मत्पदविशिष्टो बोधः संकेतविषयोस्ति, अत्र च. युष्मत्पदेन चैत्रस्य संबोध्यत्वे उक्ते छोद्देश्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नश्चैत्र एव भवति तद्विषयकत्यसंबन्धेन युष्मत्पदवैशिष्ट्यं चैत्रविषयकबोधे एव संभवति न मैत्रादिविषयकबोधे इति. तथा स्वपद. संनिवेशन सामान्यतः संबोध्यतावच्छेदकत्वस्यानुगमकत्वाभावाच्चैत्रस्य यशुष्मत्पदसंबोध्यता तस्मादू युष्मत्पदाद् मैत्रादेः प्रतीत्यापत्तिर्नास्ति, स्वपदार्थस्य च संबन्धघटकतया न तत्तत्पदव्यक्तित्वेन युष्मत्पदानां संकेतविषयता येनाऽननुगमः स्यात् किं तु पूर्ववद् युष्मत्यदत्वादिरूपानुगतानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेदः । अस्मत्यदस्थले च 'स्वोच्चारयितृतावच्छेदकखोपलक्षितधर्मावच्छिन्नविषयकत्वस्वजन्यत्वैतदुभयसंबन्धेनास्मत्पदविशिष्टो बोधो भवतु' इत्याकारकोऽस्मत्पदप्रकारको बोधविशेष्यकश्च भगवत्संकेतः स्वीकार्यः, अत्र 'अहं गच्छामि' इति मैत्रेणोक्ते स्वमस्मत्पदं तदुच्चारयिततावच्छेदकं मैत्रत्वं तवृत्तिस्वोच्चारयितृतावच्छेदकत्वेनोपलक्षितो धर्मो मैत्रत्वमेव तद्विषयकत्वमप्यत्रास्मत्पदजन्यबोधेस्ति-- अहंपदेन मैत्रस्य प्रतिपादनात् स्वजन्यत्वम्= अस्मत्पदजन्यस्वमध्यस्तीत्येतदुभयसंबन्धेनाऽस्मत्पदविशिष्टो बोधः संकेतविषयोस्ति, अत्र च मैत्रे उच्चारयितार सति स्वोचारयितृतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नो मैत्र एपेति तद्विषयकत्वसंबन्धनास्मत्पदवैशिष्टयं मैत्रविषयकबोधे एव संभवति न तु चैत्रादिविषयकबोधेपीति. तथा स्वपदसंनिवेशेन सामान्यत उच्चारयितृतावच्छेदकत्वस्यानुगमकवाभावाद् मैत्रोच्चारिताऽस्मत्पदाचैत्रादेः प्रतीत्यापत्तिर्नास्ति, स्वपदार्थस्य च संबन्धघटकतया न तत्तत्पदव्यक्तित्वेनाऽस्मत्पदानां संकेतविषयता येनाऽननुगमः स्यात् किं तु अस्मरपदत्वरूपानुगतानुपूर्वी विशेषेणैवेति न पदव्यक्तिभेदेन शक्तिभेद इत्यर्थः । अवशिष्टं च तत्पदे द्रष्टव्यम् ।
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy