SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (१००) सादर्श: [विशेषकाण्डेमानसे च शक्तिबहे न व्यवहारदर्शनादेरपेक्षा अपि त्वसंसर्गाग्रहसहितोपस्थितेरेवोत यद्धर्मावच्छिन्ने तदादिपदघटितवाक्याद् व्यवहारो न दृष्टस्तदवच्छिन्नस्याविमानसशक्तिग्रहाद्रोधः सुघट एव । यद्धर्मावच्छिन्ने यस्मिन् पटत्वादिधर्मावच्छिन्ने पटादौ तदादिपदघटितवाक्याद् व्यवहारो न दृष्टस्तादृशपटादेस्तदादिपदात् कथं बोधः स्यात-- शक्तिमहाभावादित्याशङ्कयाह--मानसंति, व्यवहाराविषयीभूतपटादेरपि मानसशक्तिप्रहेण तदादिपदाद् बोधः सुघट एव. मानसे च शक्तिज्ञाने व्यवहारदर्शनादेरपेक्षा नास्ति किं तु 'नायं पटस्तत्पदशक्यः' इत्याकारको योऽसंसर्ग:= संसर्गाभावः-बाच्यवाचकभावसम्बन्धाभावस्तस्य योऽग्रह: अज्ञानं तत्सहिता या पटोपस्थितिस्तस्था एवापेक्षास्तीति तादृशोपस्थित्या मानसं शक्तिज्ञानं सम्भवति.- मानसशक्तिज्ञाने 'नायं तत्पदशक्यः' इत्याकारकसंसर्गामावलक्षणविपर्ययस्यैव प्रतिबन्धकवादित्यर्थः । ___ मानसशक्तिज्ञानं बुद्धिविशिष्टबुद्ध्या जायते तथा हि स्वीयोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वस्वीयोदेश्यतावच्छेदकावच्छिन्नविधेयताकत्वैतदुभयसम्बन्धन बुद्धयन्तरविशिष्टा बुद्धिः स्त्रीयोदेश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताक-स्वीयविधेयतावच्छेदकावच्छिन्न विधेयताकबुद्धिमुत्पादयति यथोक्तसंबन्धद्वयेन 'पृथिवी गन्धवती' इत्याकारकबुद्धिविशिष्ट 'घटश्च पृथिवी' इत्येषा बुद्धिविज्ञेया. अत्र स्वपदाभ्याम् 'पृथिवी गन्धवती' एषा बुद्धिाह्येति स्वीयोद्देश्यं पृथिवी स्त्रीयोद्देश्यतावच्छेदकं पृथिवीत्वं तद्व्याप्यधर्मो घटत्वं तदवच्छिन्नो घटस्तदुद्देश्यताकन्वं तथा खीयोदेश्यतावच्छेदकं यत् पृथिवीत्वं तदवच्छिन्ना या पृथिवी निष्ठा विधेयता तादृशविधेयताकत्वं च 'घटश्च पृथिवी' इत्याकारकबुद्धावस्त्येव- अत्र घटे उद्देश्यतायाः पृथिव्यां च विधेयता. याः सत्त्वादिति तादृशोभयसंवन्धेन 'पृथिवी गन्धवती' इत्याकारकबुद्धिविशिष्टा या 'घटश्च पृथिवो' इत्याकारा बुद्धिः सा 'घटो गन्धवान्' इत्याकारकबुद्धिमुत्पादयति, 'घटो गंधवान्' इत्यत्रापि घटस्यैवोद्देश्यत्वात् पूर्ववत् स्वीयोदेश्यतावच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वमप्यस्ति तथा स्वीयविधेयतावच्छेदकं यद् गन्धवत्त्वं तदवच्छिन्ना या गंधनिष्ठा विधेयता तादृशविधेयताकत्वमप्यस्त्येव एवं प्रकृतेप्युक्तसंबन्धद्वयेन 'बुद्धिविषयतावच्छेदकधर्मवांस्तत्पदशक्यः' इत्याकारक बुद्धिविशिष्ट या वटश्च बुद्धिविषयतावच्छेदकधर्मवान्'इत्येषा बुद्धिः सोक्ताकाराम् 'घटस्तत्पदशक्यः' इत्याका बुद्धिमुत्पादयति.तदेव मानसं शक्तिज्ञानम् । अत्र स्वीयोदेश्यो बुद्धिविषयतावच्छेदकधर्मवान् स्वीयोवैश्यतावच्छेदकधर्मो बुद्धिविषयतावच्छेदकधर्मवत्त्वं तद्व्याप्यधर्मो घटत्वं तदवच्छिन्नो घटस्तदुद्देश्यताकत्वं तथा स्थीयोद्देश्यतावच्छेदकं यद् बुद्धिविषयतावच्छेदकधर्मवत्त्वं तदवच्छिन्ना या बुद्धिविषयतावच्छेदकधर्मवन्निष्ठा विधेयता तादृशविधेयताकत्वं च संबन्धभूतम् 'घटश्च बुद्धिविषयतावच्छेदकधर्मवान्' इत्याकारकबुद्धावस्यैव-- उद्देश्यताया घटे विधेयतायाश्च बुद्धिविषयतावच्छेदकधर्मवति सत्त्वादित्येतादृशोभयसंबन्धन पूर्वबुद्धिवैशिष्टय विज्ञेयम्, 'घटस्तत्पदशक्यः' इत्यत्रापि घटस्यैवोदेश्य
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy