SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५२ अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः बहूनां वाऽनन्तरं पारम्पर्येण वा तथाविधफलभेदोऽमीषां न्याय्य इति भाव्यमेतत्। का चेयं तथाविधविकल्पजननशक्तिः? किं तदुत्तरं ५ मानसम्, उतान्यैव काचित् ?। यदि मानसम् , कथं स्खलक्षणादस्वलक्षणजन्म? । अस्वलक्षणं च विकल्पः, असदाकाररूपत्वात् । न खसंवित्तिस्तत्राखलक्षणम् , अपि तु बहिर्मुखावभास एवेति चेत्, न खलु सा ततोऽन्येति कथं नावलक्षणम् । असन्नसौ, सा तु सती, स्वसंविदितत्वादेवेति चेत्, कथमसौ तन्मात्रतत्त्वा विकल्प इति (खो० व्या०) नामिव, एकस्य प्रमातुः इति प्रक्रमः, तथाविधानुभवनिबन्धनानामिति । तथाहिक्रमेणापि रूपादिस्खलक्षणानि स्वाकारमनुभवं कुर्वाणानि न रूपादिस्खलक्षणत्वेन विशेष्यन्त इति ॥ प्रकृतयोजनामाह-तत्-तस्मात् न तेषामिव-रूपादिस्खलक्षणानामिव, एकस्य ५ प्रमातुरिति प्रक्रमः, बहूनां वा-प्रमातृणाम् अनन्तरं बहूनां पारम्पर्येण वैकस्य तथाविधफलभेदः-भिन्नजातीय विज्ञानादिकार्यभेदोऽमीषां-निरंशवस्तुविषयनिरंशानुभवानां न्याय्य इति भाव्यमेतत्-भावनीयमेतत् । एतदुक्तं भवति-यथा तेषां रूपादिस्खलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्याना मकवस्त्वनुभवानामपि न नित्यात्मादिविकल्पजननशक्त्याख्यः फलभेदो न्याय्यः । २० इहैवाभ्युच्चयमाह का चेयमित्यादिना । का चेयं तथाविधविकल्पजनन शक्तिर्भवतोऽभिप्रेता? किं तदुत्तरं, प्रक्रमादविकल्पप्रत्यक्षोत्तरं, मानसं 'स्वविषयानन्तरे त्यादिलक्षणं उतान्यैव काचिदालयगता? । उभयथाऽपि दोषमाहयदि मानसम्, कथं स्खलक्षणादू मानसात् अस्खलक्षणजन्म-विकल्पोत्पादः? । विकल्पास्खलक्षणत्वमाह-अखलक्षणं च विकल्पो भवन्नीत्या । कुत २५ इत्याह-असदाकाररूपत्वात् । असदाकारः-विकल्पबुद्धिप्रतिभासोऽस्वलक्षणत्वाभ्युपगमात् स एव रूपं यस्य स तथा तद्भावस्तस्मात् । न खसंवित्तिस्तत्रविकल्पेऽस्खलक्षणम् ,अपितु बहिर्मुखावभास एव अस्खलक्षणम् । इति चेत्, एतदाशयाह-न खल सा-स्वसंवित्तिः ततः-बहिर्मुखावभासादन्येति-एवं कथं नाखलक्षणम् ? अस्खलक्षणमेव । असन्नसौ-बहिर्मुखावभासः, सा तु३० स्वसंवित्तिः सती-विद्यमाना, स्वसंविदितत्वादेव कारणात् । इति चेत्, एतदा १ 'चानन्तर' इति क-पाठः । २ 'भाव्यतामेतत्' इति क-पाठः । ३ 'चैकस्य' इति क-पाठः।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy