SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अधिकार खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुत्तम् (मूलम्) 'खलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति, अत्र किमिदं खलक्षणदर्शनं नाम ? का वा तदाहिता वासना यत्कृतविप्लवरूपाः सर्व एव विकल्पा इति?। वस्त्वनुभवः स्खलक्षण- ५ दर्शनम्, तदाहितवासना तु तथाविधविकल्पजननशक्तिः । यदि एवं कथं निरंशवस्तुविषयान्निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां सम्भवः?, कथं वैकस्या एवानेकविकल्पजन्म? । समुत्पद्यन्ते च खलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः, क्रमेणैकस्य, अक्रमेण चानेकप्रमातॄणाम् । न चैते शक्तिभेदैकानेक-१० जनकत्वे विना । न च भूयसामपि निरंशवस्तुविषयनिरंशानुभवानां . तत्त्वतस्तत्त्वे विशेषः, रूपादिस्खलक्षणानामिव । तन्न तेषामिवैकस्य (स्त्रो० व्या०) 'स्खलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इत्येतत्, अत्र किमिदं खलक्षणदर्शनं नाम? का वा तदाहिता-व-५ लक्षणदर्शनाहिता वासना यत्कृतविप्लवरूपाः सर्व एव विकल्पा इति?। अत्राह-वस्त्वनुभवः शुद्धः स्खलक्षणदर्शनम् , तदाहितवासना तु तथाविधविकल्पजननशक्तिः , तथाविधस्य संवादिनोऽसंवादिनश्च । एतदाशङ्कयाहयद्येवं कथं निरंशवस्तुविषयान्निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां सम्भवः सामान्येन ? कथं वैकस्या एव शक्तेः २० अनेकविकल्पजन्म?। को वा किमाह ? । न चैतदेवम् , इत्याशङ्कानिरासायाहसमुत्पद्यन्ते च स्खलक्षणदर्शनानन्तरं नित्यानित्यादि विकल्पाः क्रमेणैकस्य प्रमातुः साङ्ख्यादेबौद्धादिमतप्रतिपत्त्या, अक्रमेण चानेकप्रमातृणांसायबौद्धादीनाम् । न चैते-नित्यानित्यादिविकल्पाः। शक्तिभेदश्च एकानेकजनकत्वं चेति विग्रहः, ते चैते, एते विना क्रमाक्रमपक्षद्वयेऽपीति । एतदेवाह-न २५ चेत्यादि । न च भूयसामपि क्रमपक्षे । केषामित्याह-निरंशवस्तुविषयनिरंशानुभवानाम् , तुल्यस्खलक्षणानुभवानामित्यर्थः । किमित्याह-तत्त्वतः-परमार्थेन तत्त्वे-तद्भावे, रूपादिस्खलक्षणानुभवत्वे इत्यर्थः, विशेषः-भेदः । किं तर्हि ? सर्व एवैते रूपादिखलक्षणानुभवा एवेति । इहैव निदर्शनमाह-रूपादिखलक्षणा ... १ 'कथं चैकस्या' इति क-पाठः । २ 'तथाविधाः संवादिनो.' इति क-पाठः । ३ 'चैकस्सा एव' इति क-पाठः।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy