SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९८ अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः (मूलम् ) अथाविद्यमानः, व्याहतमेतत्-सतोऽनर्थान्तरभूतोऽविद्यमानश्च इति । करणे वाऽनित्यत्वापत्तिरिति । तथाहि-तस्मिन् क्रियमाणे ५ पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात् तस्य ।। अथ मा भूदयं दोषः, न क्रियत इत्याश्रीयते । न तर्हि स तस्य सहकारी, अकिञ्चित्करत्वात् । अकिश्चित्करत्वेऽपि सहकारित्वेऽतिप्रसङ्गः। तथाहि-यदि कञ्चन विशेषमकुर्वन्नपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गा, तविशेषाकरणेन • अविशेषादिति व्यों सहकारिकल्पना ॥ अथोच्यते-एवम्भूत एव तस्य वस्तुनः स्वभावो येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयतीति । (खो० व्या०) अथाविद्यमानः क्रियते । अत्राह-व्याहतमेतत् सतः-विद्यमानस १५ वस्तुनोऽनर्थान्तरभूतोऽविद्यमानश्च, विद्यमानाव्यतिरिक्तो हि विद्यमान एव इति कृत्वा । करणे वा अव्यतिरिक्तस्य अविद्यमानस्य अनित्यत्वापत्तिः, वस्तुन इति प्रक्रमः। एतदेव भावयति तथाहीत्यादिना । तथाहि तस्मिन्अव्यतिरिक्तेऽविद्यमाने विशेष क्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात् तस्य-विशेषस्य ॥ २० अथ मा भूदयं दोषः-अनन्तरोदितः, न क्रियत इत्याश्रीयते सहकारिणा कश्चिद् विशेषः । अत्राह-न तर्हि स तस्य-वस्तुनः सहकारी । कुत इत्याह-अकिश्चित्करत्वात् कारणात् । एवमभ्युपगमे दोषमाह-अकिश्चित्करत्वेऽपि सति सहकारित्वेऽभ्युपगम्यमाने । किमित्याह-अतिप्रसङ्गः । एनमुपदर्शयन्नाह-तथाहीत्यादि । तथाहि यदि कञ्चन विशेषम् अकुर्वन्नपि सः-पदार्थ २५ आलोकादिः तस्य-वस्तुनः सहकार्यभ्युपगम्यते, ततः किमित्याह-सर्व भावानामेव तत्सहकारित्वप्रसङ्गः । कुत इत्याह-तद्विशेषाकरणेन अविशेषात् तस्य-वस्तुनो विशेषाकरणेनाविशेषात् सर्वभावानाम्, इति एवं व्यों सहकारिकल्पना ।।। __अथेत्यादि । अथ उच्यते परेण-एवम्भूत एव तस्य वस्तुनः खमाव:___ ३० धर्मों येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य १ एवास्य वस्तुनः' इति लु-पाठः ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy