SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अधिकार: ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम् ) युज्यते, तद्भावेऽनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयतीति चेत्, न, एकान्तनित्यस्यापेक्षाऽयोगात् । तथाहि - सहकारिणा तस्य कश्चिद् विशेषः क्रियते न वेति वाच्यम्। यदि क्रियते स किमर्था - ५ न्तर भूतोऽनर्थान्तरभूतो वेति । यद्यर्थान्तर भूतस्तस्य किमायातम् ? | स तस्य विशेषकारक इति चेत्, ने, अनवस्थाप्रसङ्गात् । तथाहि -स विशेषस्ततो भिन्न भिन्नो वेति तदेवावर्तत इत्यनवस्था ॥ अथानर्थान्तरभूतः स विद्यमानोऽविद्यमानो वा । यदि विद्य मानः कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः । सकृत् करणेsपि विद्य - १० मानत्वाविशेषेण भूयो भूयः करणमित्यनवस्था || ९७ ( स्त्रो० व्या० ) दिकृतो विशेष इति - एवम्भूता कल्पना युज्यते । कुत इत्याह तद्भावे- देशादिकृतविशेषभावेऽनित्यत्वप्रसङ्गात् । न हि प्राक्स्वस्वभावनिवृत्तिमन्तरेण वस्तुनो विशेषः । सहकारिणमपेक्ष्य आलोकादिकं जनयतीति चेद् वस्तुविज्ञानमिति । १५ अत्राह - न, एकान्तनित्यस्य वस्तुनः अपेक्षाऽयोगात्, एकरूपतयेति भावः । एतद्भावनायैवाह- तथाहीत्यादि । तथाहि सहकारिणा तस्य वस्तुनः कश्चिद् विशेषः क्रियते न वेति वाच्यम्। उभयथाऽपि दोषमाह - यदि क्रियते स किमर्थान्तरभूतोऽनर्थान्तरभूत इति । अत्राप्युभयथाऽपि "दोषमाहयद्यर्थान्तरभूतस्तस्य किमायातं वस्तुनः ? । तत्तदवस्थमेवेत्यर्थः । सः - विशेषो - २० ऽर्थान्तरभूतः तस्य वस्तुनो विशेषकारकः । इति चेत्, एतदाशङ्क्याह-न, अनवस्थाप्रसङ्गात् । एनमेवाह तथाहीत्यादिना । तथाहि स विशेष:-मूलविशेषकृतः ततः वस्तुनो भिन्नोऽभिन्नो वा (इति) तदेवावर्तते इति - एवमनेन प्रकारेण अनवस्था चक्रकानिवृत्तेरिति ॥ अथानर्थान्तरभूतः सहकारिणा क्रियते विशेषो वस्तुनः । अत्रापि विकल्प - २५ युगलमाह-स विद्यमानोऽविद्यमानो वा । इहापि दोषमाह-यदि विद्यमानः कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः । कथमित्याह - सकृत् - एकवारं करणेsपि विद्यमानत्वाविशेषेण हेतुना भूयो भूयः पुनः पुनः करणमि त्यनवस्था || १ 'भूत इति' इति क-पाठः । २ 'नानावस्था०' इति क पाठः । ३ 'भिन्नो वा तदे० ' इति क- पाठः । ४ ' एवम्भूतकल्पना' इति क- पाठः । ५ 'दोष इत्याह' इति क - पाठः । ६ सन्तुल्यतां यदुक्तं विवरणे चतुर्दशे पृष्ठे २७ तमायां पक्तधाम् । ७ 'वा क्रियते इहापि ' इति ङ-पाठः । ८ 'चानच०' इति क-पाठः । अनेकान्त० १३
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy