________________
૩૫૮
સમયસાર સિદ્ધિ ભાગ-૫
( uथा-१२-१33-१३४-१3५-१36
अण्णाणस्स स उदओ जा जीवाणं अतचउवलद्धी। मिच्छत्तस्स दु उदओ जीवस्स असदहाणत्तं ।।१३२।। उदओ असंजमस्स दु जं जीवाणं हवेइ अविरमणं। जो दु कलुसोवओगो जीवाणं सो कसाउदओ।।१३३ ।। तं जाण जोगउदयं जो जीवाणं तु चिट्ठउच्छाहो। सोहणमसोहणं वा कायव्वो विरदिभावो वा।।१३४।। एदेसु हेदुभूदेसु कम्मइयवग्गणागदं जं तु। परिणमदे अट्ठविहं णाणावरणादिभावेहिं।।१३५।। तं खलु जीवणिबद्धं कम्मइयवग्गणागदं जइया। तइया दु होदि हेदू जीवो परिणामभावाणं ।।१३६ ।।
अज्ञानस्य स उदयो या जीवानामतत्त्वोपलब्धिः। मिथ्यात्वस्य तूदयो जीवस्याश्रद्दधानत्वम्।।१३२।। उदयोऽसंयमस्य तु यज्जीवानां भवेदविरमणम्। यस्तु कलुषोपयोगो जीवानां स कषायोदयः।।१३३ ।। तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः। शोभनोऽशोभनो वा कर्तव्यो विरतिभावो वा।।१३४।। एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु :। परिणमतेऽष्टविधं ज्ञानावरणादिभावैः।।१३५।। तत्खलु जीवनिबद्धं कार्मणवर्गणागतं यदा।
तदा तु भवति हेतु वः परिणामभावानाम्।।१३६ ।। अतत्त्वोपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः। मिथ्यात्वासंयमकषाययोगोदया: कर्महेतवस्तन्मयाश्चत्वारो भावाः। तत्त्वाश्रद्धानरूपेण ज्ञाने स्वदमानो मिथ्यात्वोदयः, अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः, कलुषोपयोगरूपेण ज्ञाने स्वदमान: कषायोदयः, शुभाशुभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः। अथैतेषु पौद्गलिकेषु मिथ्यात्वाद्युदयेषु हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवर्गणागतं