SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४८ ગાથા-૧૦૯ થી ૧૧૨ સમયસાર સિદ્ધિ ભાગ-૫ * * * * * * * * * * T T सामण्णपच्चया खलु चउरो भण्णंति बंधकत्तारो। मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ।। १०९ ।। तेसिं पुणो वि य इमो भणिदो भेदो दु तेरसवियप्पो । मिच्छादिट्ठीआदी जाव सजोगिस्स चरमंतं ।। ११० ।। एदे अचेदणा खलु पोग्गलकम्मुदयसंभवा जम्हा । ते जदि करेंति कम्मं ण वि तेसिं वेदगो आदा ।। १११।। गुणसण्णिदा दु एदे कम्मं कुव्वंति पच्चया जम्हा । तम्हा जीवोऽकत्ता गुणा य कुव्वंति कम्माणि ।। ११२ ।। सामान्यप्रत्ययाः खलु चत्वारो भण्यन्ते बन्धकर्तारः। मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्याः ।। १०९ । तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः । मिथ्यादृष्ट्यादिः यावत् सयोगिनश्चरमान्तः।।११०।। एते अचेतनाः खलु पुद्गलकर्मोदयसम्भवा यस्मात् । ते यदि कुर्वन्ति कर्म नापि तेषां वेदक आत्मा।।१११।। गुणसंज्ञितास्तु एते कर्म कुर्वन्ति प्रत्यया यस्मात्। तस्माज्जीवोऽकर्ता गुणाश्च कुर्वन्ति कर्माणि ।। ११२ ।। पुद्गलकर्मणः किल पुद्गलद्रव्यमेवैकं कर्तृ; तद्विशेषाः मिथ्यात्वाविरतिकषाययोगा बन्धस्य सामान्यहेतुतया चत्वारः कर्तारः । ते एव विकल्प्यमाना मिथ्यादृष्ट्यादिसयोगकेवल्यन्तास्त्रयोदश कर्तारः । अथैते पुद्गलकर्मविपाकविकल्पत्वादत्यन्तमचेतनाः सन्तस्त्रयोदश कर्तारः केवला एव यदि व्याप्यव्यापकभावेन किञ्चनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव; किं जीवस्यात्रापतितम् ? अथायं तर्कः-पुद्गलमयमिथ्यात्वादीन् वेदयमानो जीवः स्वयमेव मिथ्यादृष्टिर्भूत्वा पुद्गलकर्म करोति । स किलाविवेक:, यतो न खल्वात्मा भाव्यभावकभावाभावात् पुद्गलद्रव्यमयभिथ्यात्वादिवेदकोऽपि कथं पुनः पुद्गलकर्मणः कर्ता नाम ? अथैतदायातम्-यतः पुद्गलद्रव्यमयानां चतुर्णा सामान्यप्रत्ययानां विकल्पास्त्रयोदश विशेषप्रत्यया गुणशब्दवाच्याः केवला एव कुर्वन्ति कर्माणि ततः पुद्गलकर्मणामकर्ता जीवो, गुणा एव तत्कर्तारः। ते तु पुद्गलद्रव्यमेव । ततः स्थितं पुद्गलकर्मणः पुद्गलद्रव्यमेवैकं कर्तृ । 3
SR No.008309
Book TitleSamaysara Siddhi 5
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2006
Total Pages510
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy