________________
गाथा-७२
गाथा - ७२
7 7 7 7 f
***
कथं ज्ञानमात्रादेव बन्धनिरोध इति चेत्
णादूण आसवाणं असुचित्तं च विवरीयभावं च । दुक्खस्स कारणं ति य तदो णियत्तिं कुणदि जीवो । ७२ ।। ज्ञात्वा आस्रवाणामशुचित्वं च विपरीतभावं च ।
दुःखस्य कारणानीति च ततो निवृतिं करोति जीवः ।।७२।।
૫૫
जले जम्बालवत्कलुषत्वेनोपलभ्यमानत्वादशुचयः खल्वास्रवाः, भगवानात्मा तु नित्यमेवातिनिर्मलचिन्मात्रत्वेनोपलम्भकत्वादत्यन्तं शुचिरेव। जडस्वभावत्वे सति परचेत्यत्वादन्यस्वभावाः खल्वास्रवाः, भगवानात्मा तु नित्यमेव विज्ञानघनस्वभावत्वे सति स्वयं चेतकत्वादनन्यस्वभाव एव । आकुलत्वोत्पादकत्वाद्दुःखस्य कारणानि खल्वास्रवाः, भगवानात्मा तु नित्यमेवानाकुलत्वस्वभावेनाकार्य-कारणत्वाद्दुःखस्याकारणमेव। इत्येवं विशेषदर्शनेन यदैवायमात्मात्मास्रवयोर्भेदं जानाति तदैव क्रोधादिभ्य आस्रवेभ्यो निवर्तते, तेभ्योऽनिवर्तमानस्य पारमार्थिकतद्भेदज्ञानासिद्धेः। ततः क्रोधाद्यास्रवनिवृत्त्यविनाभाविनो ज्ञानमात्रादेवाज्ञानजस्य पौद्गलिकस्य कर्मणो बन्धनिरोधः सिध्येत्।
किञ्च यदिदमात्मास्रवयोर्भेदज्ञानं तत्किमज्ञानं किं वा ज्ञानम्? यद्यज्ञानं तदा तदभेदज्ञानान्न तस्य विशेषः। ज्ञानं चेत् किमास्रवेषु प्रवृत्तं किं वास्रवेभ्यो निवृत्तम् ? आस्रवेषु प्रवृत्तं चेत्तदापि तदभेदज्ञानान्न तस्य विशेषः। आस्रवेभ्यो निवृत्तं चेत्तर्हि कथं न ज्ञानादेव बन्धनिरोधः। इति निरस्तोऽज्ञानांशः क्रियानयः। यत्त्वात्मास्रवयोर्भेदज्ञानमपि नास्रवेभ्यो निवृत्तं भवति तज्ज्ञानमेव न भवतीति ज्ञानांशो ज्ञाननयोऽपि निरस्तः।
હવે પૂછે છે કે જ્ઞાનમાત્રથી જ બંધનો નિરોધ કઈ રીતે છે ? તેનો ઉત્તર કહે છેઃ અશુચિપણું, વિપરીતતા એ આસવોનાં જાણીને,
વળી જાણીને દુઃખકા૨ણો, એથી નિવર્તન જીવ કરે. ૭૨.
गाथार्थः- [ आस्रवाणाम् ] खासवोनुं [ अशुचित्वं च ] अशुभिपशुं अने [ विपरीतभावं च ] विपरीतपणुं [ च ] तथा [ दुःखस्य कारणानि इति ] तेस्रो हुःषना २ए छे खेभ [ ज्ञात्वा ] भगीने [ जीव: ] a [ तत: निवृत्ति ] तेमनाथी निवृत्ति [ करोति ] ऽरे छे.
ટીકા:- જળમાં શેવાળ છે તે મળ છે-મેલ છે; તે શેવાળની માફક આસ્રવો મળપણેમેલપણે અનુભવાતા હોવાથી અશુચિ છે (-અપવિત્ર છે) અને ભગવાન આત્મા તો સદાય અતિનિર્મળ ચૈતન્યમાત્રસ્વભાવપણે જ્ઞાયક હોવાથી અત્યંત શુચિ જ છે (-પવિત્ર