________________
સમયસાર સિદ્ધિ ભાગ-૪
( २॥ - 5८-७० HTTPTYPTrrrrrry जाव ण वेदि विसेसंतरं तु आदासवाण दोण्हं पि। अण्णाणी ताव दु सो कोहादिसु वट्टदे जीवो।।६९।। कोहादिसु वटुंतस्स तस्स कम्मस्स संचओ होदि। जीवस्सेवं बंधो भणिदो खलु सव्वदरिसीहिं।।७०।। यावन्न वेत्ति विशेषान्तरं त्वात्मास्रवयोर्द्वयोरपि। अज्ञानी तावत्स क्रोधादिषु वर्तते जीवः ।।६९।। क्रोधादिषु वर्तमानस्य तस्य कर्मणः सञ्चयो भवति।
जीवस्यैवं बन्धो भणित: खलु सर्वदर्शिभिः।।७०।। यथायमात्मा तादात्म्यसिद्धसम्बन्धयोरात्मज्ञानयोरविशेषाद्रेदम पश्यन्नविशङ्कमात्मतया ज्ञाने वर्तते,तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेना-प्रतिषिद्धत्वाज्जानाति, तथा संयोगसिद्धसम्बन्धयोरप्यात्मक्रोधाद्यासवयोः स्वयमज्ञानेन विशेषमजानन् यावद्भेदं न पश्यति तावदशङ्कमात्मतया क्रोधादौ वर्तते, तत्र वर्तमानश्च क्रोधादिक्रियाणां परभावभूतत्वात्प्रतिषिद्धत्वेऽपि स्वभावभूतत्वाध्यासात्क्रुध्यति रज्यते मुह्यति चेति। तदत्र योऽयमात्मा स्वयमज्ञानभवने ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाण: प्रतिभाति स कर्ता; यत्तु ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं क्रियमाणत्वेनान्तरुत्प्लवमानं प्रतिभाति क्रोधादि तत्कर्म। एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्तिः। एवमस्यात्मन: स्वयमज्ञानात्कर्तृकर्मभावेन क्रोधादिषु वर्तमानस्य तमेव क्रोधादिवृत्तिरूपं परिणाम निमित्तमात्रीकृत्य स्वयमेव परिणममानं पौद्गलिकं कर्म सञ्चयमुपयाति। एवं जीवपुद्गलयो: परस्परावगाहलक्षणसम्बन्धात्मा बन्धः सिध्येत्। स चानेकात्मकैकसन्तानत्वेन निरस्तेतरेतराश्रयदोष: कर्तृकर्मप्रवृत्तिनिमित्तस्याज्ञानस्य निमित्तम्।
હવે, જ્યાં સુધી આ જીવ આસવના અને આત્માના વિશેષને (તફાવતને) જાણે નહિ ત્યાં સુધી તે અજ્ઞાની રહ્યો થકો, આસવોમાં પોતે લીન થતો, કર્મોનો બંધ કરે છે એમ ગાથામાં કહે છે -
આત્મા અને આસ્રવ તણો જ્યાં ભેદ જીવ જાણે નહીં, ક્રોધાદિમાં સ્થિતિ ત્યાં લગી અજ્ઞાની એવા જીવની. ૬૯. જીવ વર્તતાં ક્રોધાદિમાં સંચય કરમનો થાય છે,
સહુ સર્વદર્શી એ રીતે બંધન કહે છે જીવને. ૭૦. Puथार्थ:- [ जीव: ] 04 [ यावत् ] भ्यां सुधा [ आत्मास्रवयोः द्वयोः अपि तु]