SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे उत्सर्पिणाद्वितीये सहस्रशेषेषु कुलकराः कनकः । कनकप्रभराजध्वजपुंगवाः तथा नलिनाः पद्माः महापद्मः ॥ ८७१ ॥ उस्स । उत्सर्पिणी द्वितीयकाले सहस्रवर्षे अवशिष्टे सति कुलकरा भवंति । ते तु कनकः कनकप्रभः कनकराजः कनकध्वजः कनकपुंगव - स्तथा नलिनो नलिनप्रभो नलिनराजो नलिनध्वजो नलिनपुंगवः पद्मः पद्मप्रभः पद्मराजः पद्मध्वजः पद्मपुंगवो महापद्म इति षोडश मनवः स्युः ॥ ८७१ ॥ ३४८ अथ तेषां कृत्यं तृतीयकालस्थत्रिषष्ठिशला कापुरुषांश्च गाथाचतुष्टयेनाह;तस्सोलसमणुहि कुलायाराणलपक्कपहुदिया होंति । तेवद्विणरा तदिए सेणियचर पढमतित्थयरो ॥ ८७२ ॥ तत्षोडशमनुभिः कुलाचारानलप कप्रभृतयो भवति । त्रिषष्ठिन रास्तृतीये श्रेणिकचरः प्रथमतीर्थकरः || ८७२ ॥ तस्सोलस । तैः षोडशमनुभिः कुलाचारानलपक्कप्रभृतयो भवति । तृतीये काले पुनस्त्रिषष्टिशलाकाः पुरुषा भवंति । तत्र श्रोणिकचरः प्रथमतीकरः स्यात् ॥ ८७२ ॥ महपरमो सुरदेवो सुपासणामो सयंपहो तुरियो । सव्वप्पभूद देवादीपुत्तो होहि कुलपुत्तो ॥ ८७३ ॥ महापद्मः सुरदेवः सुपार्श्वनामा स्वयंप्रभः तुर्यः । सर्वात्मभूतो देवादिपुत्रो भवति कुलपुत्रः ॥ ८७३ ॥ महपउमो । महापद्मः सुरदेवः सुपार्श्वनामा स्वयंप्रभस्तुर्यः सर्वात्मभूतो 'देवपुत्रः कुलपुत्रो भवति ॥ ८७३ ॥ तित्थयरुदंक पोट्ठिल जयकित्ती मुणिपदादिसुव्वदओ । अरणिप्पावकसाया विउलो किण्हचरणिम्मलओ८७४
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy