SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०८ त्रिलोकसारे गोउरवासो कमसो सयजायणगाणि तिसु य दसहीणं ।। बीसूणं पंचमगे तत्तो सव्वत्थ दसहीणं ॥ ४९३ ॥ गोपुरव्यासः क्रमशः शतयोजनानि त्रिषु च दशहीनं । विंशोनं पंचमके ततः सर्वत्र दशहीनम् ॥ ४९३ ॥ गोउर । गोपुरव्यासः क्रमशः शतयोजनानि ततः उपरि त्रिषु स्थानेषु दशहीनं योजनानि पंचमस्थाने विंशत्यूनयोजनानि । ततः परं सर्वत्र दशहीनयोजनानि ॥ ४९३॥ ___ अथ प्रागुक्तनवस्थानाश्रयेण सामानिकतनुरक्षानीकदेवानां प्रमाण गाथाद्वयेनाह;णयरपदे तस्संखा समाणिया चउगुणा य तणुरक्खा । बसहतुरंगरथेभपदातीगंधबणचणी चेदि ॥४९४ ॥ नगरपदे तत्संख्या सामानिका चतुर्गुणाश्च तनुरक्षाः । वृषभतुरंगरथेभपदातिगंधर्वनर्तकी चेति ॥ ४९४ ॥ जयरपदे । सोहम्मादिचउक्के इति गाथोक्तेषु नगराणां नवसु स्थानेषु चुलसीदियति गाथोक्ततत्तन्नगरविस्तारसंख्येव सामानिकसंख्येति ज्ञातव्यं सैव चतुर्गुणिता तनुरक्षकसंख्या वृषभतुरंगरथेभपदातिगंधर्वनर्तकी चति ॥ ४९४॥ सत्तेव य आणीया पत्तेयं सत्तसत्तकक्खजुदा । पढमं ससमाणसमं तदुगुणं चरिमकक्खोत्ति ॥ ४९५॥ सप्तैव च आनीकानि प्रत्येकं सप्तसप्तकक्षयुतानि । प्रथमः स्वसमानसमः तद्विगुणं चरमकक्षांतम् ॥ ४९५ ॥ सत्तेव य । सप्तवानीकानि तानि प्रत्येकं सप्तसप्तकक्षयुतानि । तत्र
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy