SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८६ त्रिलोकसारे तो णेरिदि जल विस्सो बह्मा विण्हू वसू य वरुणअजा। अहिवड्डि पूसण अस्सा जमो वि अहिदेवदा कमसो ४३५ ततः नैर्ऋतिः जलः विश्वः ब्रह्मा विष्णुः वसुश्च वरुणः अनः । अभिवृद्धिः पूषा अश्वः यमोऽपि अधिदेवताः क्रमशः ॥ ४३५ ॥ अहिवडि । ततो नैर्ऋतिः जलो विश्वो ब्रह्मा विष्णुः वसुश्च वरुणः अजः अभिवृद्धिः पूषा अश्वः यमोप्यते कृतिकादीनां अधिदेवताः क्रमशः ॥ ४३५ ॥ नक्षत्राणां स्थितिविशेषविधानमाह;कित्तियपडंतिसमये अहम मघरिक्खमदि मज्झण्हं । अणुराहारिक्खुदओ एवं सेसे वि भासिज्जो ॥ ४३६ ॥ कृत्तिकापतनसमये अष्टमं मघाऋक्षं एति मध्याह्नम् । अनुराधाऋक्षोदयः एवं शेषेषु अपि भाषणीयम् ॥ ४३६ ॥ कित्तिय । कृत्तिकापतनसमयेऽस्तसमये इत्यर्थः । तस्याष्टमं मघाकक्षं मध्याह्नमेति तस्या मघायाः सकाशात् अष्टममनुराधानक्षत्रमुदयमोत । एवं शेषेषु रोहिण्यादिषु अस्तमितनक्षत्रादष्टमनक्षत्रं मध्याह्नमति । तस्मादष्टमं न क्षत्रमुदयमेतीति भाषणीयम् ॥ ४३६ ॥ __चन्द्रस्य पंचदशमार्गेषु अस्मिन्नस्मिन्मार्गे एतान्येतानि नक्षत्राणि तिष्ठन्तीति गाथात्रयणाह;अभिजिणव सादिपुव्वुत्तरो य चंदस्स पढममग्गह्मि । तदीए मघापुणव्वसु सत्तमिए रोहिणी चित्ता ।।४३७॥ अभिजिन्नव स्वातिः पूर्वोत्तरा च चंद्रस्य प्रथममार्गे । तृतीये मघापुनर्वसू सप्तमे रोहिणी चित्रा ॥ ४३७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy