SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः । लोकः अकृत्रिमः खलु अनादिनिधन: स्वभावनिर्वृत्तः । जीवाजीवैः स्फुट: सर्वाकाशावयवः नित्यः ॥ ४ ॥ लोगो । अधिकारागतस्य लोकपदस्य पुनरुपादानं लोकमनूय दूषणार्थे । लोकोस्तीति । अनेन विशेषणेन शून्यवादनिराकृतिः कृता । अकृत्रिमः खलु, अनेनेश्वरकर्तृकत्वं निराकृतम् । अनादिनिधनः । अनेन सृष्टिसंहारनिराकरणं । स्वभावनिर्वृत्तः । अनेन परमाण्वारब्धतानिराकृतिः । जीवाजीवैः स्फुट: अमेम मायावादिनिराकरणं । सर्वाकाशावयवः । अनेन अलोकाभाववादापहारः । नित्यः । अनेन क्षणिकमतनिरासः । एतावता कथनेन लोक्यत इति लोकः इति षड्द्रव्यसमवायस्य लोकत्वमुक्तम् ॥ ४ ॥ इदानीं तदाधारस्याकाशस्य लोकत्वमुच्यते ;धम्माधम्मगासा गदिरागदि जीवपोग्गलाणं च । जावत्तावलोगो आयासमदो परमणंतं ॥ ५ ॥ धर्माधर्माकाशा गतिरागतिः जीवपुद्गलयोः च । यावत्तावल्लोक आकाशं अतः परमनंतम् ॥ ५ ॥ धम्म | धर्माधर्माकाशा गतिरागतिर्जीवपुद्गलयोः चकारात् कालाणवश्व यावदाकाशमभिव्याप्य वर्तते तावदाकाशं लोक, अतः परमाकाशमनंतं न संख्यातादि ॥ ५ ॥ अथ परपरिकल्पित लोकसंस्थाननिराकरणार्थमाह; - उब्मियदलेक्कमुरवद्भयसंचयसण्णिहो हवे लोगो । अदयो मुरवसमो चोइसरज्जूदओ सब्वो ॥ ६ ॥ उद्भूतदलैकमुरजध्वजसंचयसन्निभो भवेत् लोकः । अर्धोदयः मुरजसमः चतुर्दशरज्जूदयः सर्वः ॥ ६ ॥ उब्मिय । उद्भभूतदलमुरजैकमुरजसन्निभः । अत्र शून्यतानिराकरणार्थ ध्वजसंचयसन्निभो भवेल्लोकः । अर्धमुरजोदयः एकमुरजोदयसमः मिलित्वा सर्वलोकश्चतुर्दशरज्जूदयः ॥ ६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy