SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे विंदति पालयतीति गोविंदी राचमल्लदेवः बलश्च गोविंदश्च बलमोकिंदो तयोः शिखेत्यादि पूर्ववत् ॥ १॥ अथ प्रथमद्वितीयगाथाद्वयकृतचैत्यचैत्यालयनमस्कारकरणेन नवदेवतानमस्कारं कुर्वन् ग्रंथस्य पंचाधिकारं सूचयन्नाह;भवणविंतरजोइसविमाणणरतिरियलोयजिणभवणे । सवामरिंदणरवइसंपूजियवदिए वंदे ॥२॥ भवनव्यंतरज्योतिर्विमाननरतिर्यग्लोकजिनभवनानि । सर्वामरेंद्रनरपतिसंपूजितवंदितानि वदे ॥ २ ॥ भवण । भवनव्यंतरज्योतिर्विमाननरतिर्यग्लोकजिनभवनानि सर्वामरेंद्रनरपतिसंपूजितवंदितानि वंदे ॥ २॥ अथ तानि जिनभवनानि कुत्रेत्याशंकायामाह;सव्वागासमणंतं तस्स य बहुमज्झदेसभागम्हि । लोगोसंखपदेसो जगसेढिघणप्पमाणो हु ॥३॥ सर्वाकाशमनंतं तस्य च बहुमध्यदेशभागे । लोकोऽसंख्यप्रदेशो जगच्छ्रेणिघनप्रमाणो हि ॥ ३ ॥ सव्व। सर्वाकाशमनंतं तस्य च बहुमध्यदेशभागे, बहवः अतिशयिताः रचनीकृताः असंख्याता वाकाशस्य मध्यदेशा यस्य स बहुमध्यदेशः स चासौ भागश्च खंडाः तस्मिन् बहुमध्यदेशभागे। अथवा बहवः अष्टौ गोस्तनाकाराः आकाशस्य मध्यदेशाः मध्यदेशे यस्य स तथोक्तस्तस्मिन् । लोकोस्त्यसंख्य. प्रदेशः स च जगच्छ्रेणीघनप्रमाणः खलु ॥ ३॥ अथ लोकविप्रतिपत्तिनिरासार्थमाह;लोगो अकिट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो। जीवाजीवहिं फुढो सव्वागासवयवो णिच्चो ॥४॥ .
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy