SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे १५६ ३४० इनगतिक्षेपे कृते उत्तरोत्तरसुरगिरिसूर्यांतरं स्यात् । अभ्यंतरवीथीविष्कंभे ९९६४० द्विगुणदिनगतिं भक्त्वा ५/६ क्षेपे कृते ९९६४५५ . द्वितीयवीथीगत सूर्य सूर्ययोरंतरं स्यात् । एवं स्वस्वाभ्यंतरे विष्कंभे द्विगुणदिनगतिक्षेपं कृत्वा उत्तरोत्तरसूर्यसूर्ययोरंतरं ज्ञातव्यं । विक्खंभे - त्यादिनाभ्यंतरविष्कंभस्य परिधिमानीय तस्मिन् अभ्यंतरवीथीपरिधौ ३१५०८९ द्विगुणदिनगति परिधिं विक्खंभ वग्गदहगुण ११५६००० करणी १६७५ त्यादिनानीय निजहारेण भक्त्वा १७ निक्षिप्ते ३१५१०६१ द्वितीयवीथीपरिधिः स्यात् । अमुमेव द्विगुणदिनगतिपरिधिं पूर्वपूर्वपरिधौ क्षेपे कृते उत्तरोत्तरवीथीपरिधिः स्यात् । एवमुक्तप्रकारेण दिनगतिक्षेपात् द्विगुणदिनगतिक्षेपात् द्विगुणदिनगतिपरिधिक्षेपाञ्च सुरगिरिसूर्यतरं परिधिं च साधयेत् क्रमशः ॥ ३७८ ॥ अथैवमुक्तपरिधौ परिभ्रमतः सूर्यस्य दिनरात्रिहेतुत्वं तयोः प्रमाणं च भार्गाश्रयेणाह - सूरादो दिणरत्ती अट्ठारस बारसा मुहुत्ताणं । - अभंतर म्हि एवं विवरीयं बाहिरम्हि हवे ॥ ३७९ ॥ सूर्यात् दिनरात्री अष्टादश द्वादश मुहूर्तानाम् । अभ्यंतरे एतत् विपरीतं बाह्ये भवेत् ॥ ३७९ ॥ 380 ६१ ३४० ६५ सूरादो । सूर्यात् मुहूर्तानामष्टादश द्वादशसंख्ये द्वे यथासंख्यं दिनरात्री स्यातां । केति चेद्, अभ्यंतरपरिधौ एतदेव विपरीतं बाह्यपरिधौ भवेत् ॥ ३७९ ॥ अथ सूर्यस्यावस्थितिस्वरूपं दिनरात्र्योर्हानिचयं चाह; — कक्कडमयरे सव्वब्भंतर बाहिरपट्टिओ होदि । महभूमीण विसेसे वीथीणंतरहिदे य चयं ॥ ३८० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy