________________
जीवसिद्धिः ]
न्यायप्रकाशसमलते प्रत्यक्षगोचरतां, ततो नास्त्यात्मा, न चासावनुमानगम्यः, लिङ्गलिङ्गिनोः कचिदध्यक्षतोऽविनाभावग्रहेणैवानुमानप्रवृत्तेः, न च लिङ्गिनाऽऽत्मना कस्यापि सिद्धोऽस्ति प्रत्यक्षेणाविनाभावो लिङ्गस्य, तथा सति जीवस्य प्रत्यक्षत एव सिद्धावनुमाननैरर्थक्यं स्यात् । न चादित्यो गतिमान देशान्तरप्राप्तेर्देवदत्तवदिति सामान्यतोदृष्टानुमानेनादृष्टाया अप्यादित्यस्य गतेरनुमानवदत्रापि जीवस्सिद्ध्यतीति वाच्यम् , दृष्टान्ते देवदत्तादौ सामान्यतो देशान्तरप्राप्तेर्गतिपूर्वकत्वमध्यक्षतो- 5 ऽवधायैव सूर्ये तत्साधनात्, न चात्र तथा क्वचिदपि दृष्टान्ते जीवसत्ताऽविनाभूतं साधनं किमपि प्रत्यक्षेण लक्ष्यते । न चाप्यागमगम्यस्सः, वस्तुतस्तस्यानुमानादभिन्नत्वात् , न च कस्यचित्प्रत्यक्षो जीवो यस्य वचनमागमः स्यात्प्रमाणश्च भवेत् । तथा च सर्वमिदं निरूपणमरण्यरुदितनिभमित्याशङ्कायां जीवासाधारणधर्मात्मकलक्षणप्रदर्शनद्वाराऽऽत्मानं साधयति- . तत्र चेतनालक्षणो जीवः ।
__10 तत्रेति । नवसु तत्त्वेषु मध्य इत्यर्थः । चेतना लक्षणमसाधारणो धर्मस्स्वरूपं वा यस्य सः, चेतनया लक्ष्यतेऽसाविति वा चेतनालक्षणः, अत्र जीव इति लक्ष्य, चेतनालक्षण इति लक्षणम् । चेतना-बुद्धिः-संवेदनं, सैषा जीवस्य पर्यायः, तदेव सामान्य लक्षणम् , जीवो लक्ष्यः । सर्वजीववर्तिनी चेयं चेतना, सूक्ष्मनिगोदापर्याप्तेष्वपि सर्वजघन्या साऽस्त्येव, त्रैलोक्यवर्तिनां सर्वपुद्गलानां कर्मतया परिणतानामपि सर्वात्मना चेतनां समावरीतुं सामर्थ्या- 15 भावादतो न काऽप्यव्याप्तिः । न वाऽसम्भवोऽचेतन आत्मेति विरुद्धत्वादश्रावणश्शब्द इतिवत् । एवञ्च चेतनैवात्मनि प्रमाणं, सुखदुःखादयो हि यथाऽऽत्मसंवेदनसिद्धास्तथा संशयादिविज्ञानमपि स्वसंवेदनसिद्धमेव, यद्धि प्रत्यक्षं न तत्प्रमाणान्तरेण साध्यं भवति, न च सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति शून्यवादिनमनुमातारं प्रति प्रत्यक्षसिद्धमपि सग्रामनगरं विश्वं साध्यत एवेति वाच्यम् , तत्र बाधकप्रमाणस्यैव निराकरणात् , अन त्वात्म- 20 ग्राहके प्रत्यक्षे बाधकप्रमाणाभावात् । ज्ञातवानहं जानेऽहं ज्ञास्याम्यहमित्यादित्रैकालिककार्यव्यपदेशविषयाहम्प्रत्ययत आत्मनः प्रत्यक्षसिद्धत्वाच्च । न चाहम्प्रत्यय आनुमानिकोऽलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसम्भवस्तदनभिज्ञानामपि तस्योत्पादात् । न चास्य देह एव विषयो मृतदेहेऽपि तदुत्पत्तिप्रसङ्गात् । नापि निराश्रयः अहमित्यादिज्ञानस्य गुणत्वेन गुणिनमन्तरेणासम्भवात् , न देहोऽत्र गुणी, मूर्त्तत्वाजडत्वाच्च ज्ञानस्य त्वमूर्त्तत्वाद् बोधरूपत्वाच्च । 25 न चाननुरूपाणां गुणगुणिभावो युज्यते, आकाशरूपादीनामपि तद्भावप्रसङ्गात् । तस्मादह
१. कथञ्चिद्भदापेक्षयेदं, स्वरूपमिति तु कथञ्चिदभेदापेक्षया । तथा च लक्षणशब्दो भेदाभेदद्योतक इति भावः । तथा च जीवश्चैतन्यमेव चैतन्यमपि जीव एव परस्परेणाविनाभूतत्वादिति बोध्यम् ।।