________________
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे प्रकृतिस्थितिरसप्रदेशभेदाच्चतुर्विधो बन्धः । प्रकृतीति । जीवप्रदेशकर्मपुद्गलानां क्षीरोदकवत्परस्पराश्लेषो बन्धः । बन्धनं बन्धोऽस्वतंत्रीकरणं, तच्चोभयोरपि पुद्गलात्मनोरिति क्रियाक्रियावतोः कथञ्चिदभेदात् ज्ञानदर्शनाव
रणवेदनीयमोहनीयाऽऽयुष्कनामगोत्रान्तरायात्मकाष्टविधाः प्रकृतयो बन्धपदवाच्या भवन्ति । 5 अथवाऽष्टविधकर्मजन्यास्स्वभावाः प्रकृतयः, यथा ज्ञानावरणीयस्यार्थानवगमो, दर्शनावरणीयस्यार्थानालोचनं, वेदनीयस्य सुखदुःख संवेदनं, तत्त्वार्थाश्रद्धानासंयमौ मोहनीयस्य, भवधारणमायुषो नाम्नो नारकादिनामकरणं गोत्रस्य सदसत्कुलीनसंशब्दनं दानादिविघ्नकरणमन्तरायस्येति । एतासां ज्ञानावरणीयादिप्रकृतीनामात्मप्रदेशेषु कालविभागेनावस्थान स्थितिबन्धः,
तत्तत्प्रकृतिस्वभावादविच्युतिर्नियतकालमिति वा । नियतकालानां कर्मणां तीव्रमन्दादि10 भावेन विपाकवत्ता रसबन्धोऽनुभावबन्धापरनामा कर्मपुद्गलगतसामर्थ्य विशेषानुभवो वा।
आत्मप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं प्रदेशबन्धः, कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं वेति चतुर्विधो बन्ध इति भावः ॥
अथ मोक्षं विभजतेमोक्षस्तु सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभाग
भावाल्पबहुत्वैवविधः ॥ मोक्षस्त्विति । कृत्स्नकर्मक्षयो मोक्षः, तत्र वस्तुतो यद्यपि तारतम्याभावेन तस्य प्रभेदा न संभवन्त्येव, तथापि तद्वतां सिद्धानामाश्रयेण व्याख्याप्रकारैस्सत्पदप्ररूपणादिभिर्भेदोऽवसेयः, मोक्षस्यात्मपरिणामतया परिणामपरिणामिनोः कथञ्चिदभेदादिति भावः ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरश्रीमद्विजयकमलसूरीश्वरचरण20 नलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्यास्यायां तत्त्वोद्देशाख्यः प्रथमकिरणः समाप्तः।।
__ अथ द्वितीयकिरणः ॥ ननु सर्वमिदं तदोपपद्यते जीवो नाम कश्चन पदार्थः प्रमाणपदं यद्यवतरेत् , यस्य मुक्तये तत्त्वोपदेशो भवेत् , तत्रैव च मानं न पश्यामः, लोके हि यदत्यन्तमप्रत्यक्षं तन्नास्त्येव यथा 25 गगनारविन्दं, यत्त्वस्ति तत्प्रत्यक्षेण गृह्यत एव यथा घटादिकं, न चायाति जीवः कदाचन
१. क्रिया-अस्वतन्त्रीकरणरूपा, क्रियावान् जनकतया दर्शनावरणादिः । आश्रयतया चात्मा । यदि प्रकृतिशब्दस्य स्वभाववाचित्वं न ज्ञानावरणादिवाचित्वमित्युच्यते तदा त्वाहाथवेति ॥