SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ मुनिश्री भद्रंकरविजयजीविरचितो ग्रन्थप्रशस्तिरूपः ग्रन्थकारपरम्परापरिचयः॥ शक्रश्रेणीमुकुटमणिभिः स्पृष्टपादारविन्दः, ___स्याद्वादीशश्वरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाभूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥१॥ तत्पट्टा हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्भोधिः प्रथितगणभृत्पञ्चमः संयताक्षः। प्रातध्येयस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, · हर्षाय स्तात्सहृदयहृदां श्रीसुधर्मेशिता वै ॥२॥..... जम्बूः कम्बूजवलतरयशास्तत्सुपट्टाब्जपूषा, ___नव्योढाभिर्जितसुभगतास्वर्गरम्भोर्वशीभिः । जहे स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, . ___वात्यामिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३॥ . . तत्पदृप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद् , .. दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः। अर्हन्मृा कुमततिमिरं सूर्यदीप्त्येव नष्टं; . तत्पट्टेशोऽवतु सुमनसो यस्य शय्यम्भवः सः॥४॥ ततो यशोभद्रगुरुर्बभूव, तत्पदृशुद्धाम्बरपुष्पदन्तौ। सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताजराहू ॥५॥ वेश्यावेश्मन्युषित्वा त्रिभुवनविजयी येन कामो विजिग्ये, कोशावेश्याकटाक्षप्रसृमरविशिखानिर्जितस्वान्तयोधः।। कीर्तिः प्रातत्रिलोक्यां नरसुरदनुजैः कीर्त्यते यस्य नित्यं, भद्रं स स्थूलभद्रो दिशतु मतिमतां-पट्टरत्नं तयोर्यः ॥६॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy