SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ : ६०४: तत्त्वन्यायविभाकरे [ तृतीयकिरणे पुलाके व्युच्छिन्नेऽपीति गम्यते । एकक इति, शुभतरपरिणामत्वादिति भावः, निर्वाणमिति, मोक्षं कृत्स्नकर्मक्षयरूपमित्यर्थः,निखिलनयाभिप्रेतार्थत्वात् ,जैनदर्शने च षड्दर्शनसमूहमयत्वस्य सम्मतत्वात् , तथाहि ऋजुसूत्रादिभिर्नयः ज्ञानसुखादिपरम्परा मुक्तिरिष्यते, तैरुत्तरोत्तरवि शुद्धपर्यायमात्राभ्युपगमात् , क्षणविद्यमानत्वेन ज्ञानादीनां क्षणरूपतायास्सिद्धेः क्षणविद्यमा5 नत्वस्य क्षणतादात्म्यनियतत्वात् , क्षणस्वरूपे तथादर्शनात् । सङ्ग्रहेण त्वावरणोच्छित्त्या व्यङ्गयं सुखं मुक्तिरित्यभ्युपगम्यते, व्यवहारेण प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वात् ज्ञानादिषु दुःखोपायनाशहेतुषु प्रवृत्तिर्जायत एवेति । अन्तेऽस्य ग्रन्थस्य निर्वाणपदनिर्देशेन पर्यन्तमङ्गलमपि शिष्यप्रशिष्यपरम्परया ग्रन्थस्यास्याविच्छेदफलकं निबद्धमिति सूचितम् । ग्रन्थेऽस्मिन् सर्वे विषया न पूर्णतया 10 दर्शिताः, अपि तु लेशत एवेत्याशयेनाह दिगिति । पुलकादिचारित्रिनिरूपणं निगमयतीतीति ।। सम्यक्चरणनिरूपणमपि निगमयति जिज्ञासूनां यथाशास्त्रं सम्यक्चरणमीरितम् । स्वरूपेण विधानेन सम्यग्ज्ञानाभिवृद्धये ॥ जिज्ञासूनामिति । जैनतत्त्वज्ञानाभिलाषिणामित्यर्थः, यथाशास्त्रमिति, शास्त्रमर्या15 दामबुल्लद्ध्येत्यर्थः, सम्यक्चरणमीरितमिति, चर्यते मुमुक्षुभिरासेव्यत इति चरणं यद्वा चर्यते प्राप्यते परं पारं भवोदधेरनेनेति चरणं व्रतश्रमणधर्मादिरूपं, सम्यगविपरीतं मोक्षसिद्धि प्रतीत्यानुगुणं यच्चरणं तदीरितं कथितमित्यर्थः, कथमित्यत्राह स्वरूपेण विधानेनेति, लक्षणेन प्रभेदेन चेत्यर्थः, किमर्थमित्यत्राह सम्यग्ज्ञानाभिवृद्धय इति, श्रोतृणां स्वस्य च सम्यरज्ञानस्य विवृद्ध्यर्थमित्यर्थः ॥ 20 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य - तत्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पुलाकादि निरूपणं नाम तृतीयः किरणः ॥ पूर्वर्षिकृतशास्त्राणां सारमादाय केवलम् । रचितेयं मया टीका मूलस्येव विभाव्यताम् ।। ..... . . . Dac तृतीयो भागः समाप्तः ॥ समाप्तच व्याख्यासहितस्तस्वन्यायविभाकरः ॥ इति शिवमस्तु ॥ ..
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy