________________
व्याप्तिः ]
न्यायप्रकाशसमलङ्कृते
क्षिततोरपि न हेतुलक्षणत्वं उभयत्र हेतावविनाभावासम्भवात् तत्स्थितमेतन्निश्चितव्याप्तिमन्वमेव हेतोरसाधारणं रूपं न तु त्रिरूपं पश्वरूपं वेति || अत्रेदं विचार्यम्, अविनाभावः किं सामान्यस्य सामान्येन, विशेषैर्वा, विशेषाणां सामान्येन, विशेषैर्वेति । सामान्यस्य सामान्येन व्याप्तिर्नानुमानाङ्गभूता, तया च सामान्यस्यैव सिद्धेः सामान्यतया सर्वदेशकाल - सम्बन्धित्वेन प्रसिद्धस्य साध्यस्य साधने सिद्धसाधनत्वापत्तेः । नापि विशेषैः, देशकाला- 5 नवच्छिन्नैस्तैस्तथात्वे देशकालानवच्छिन्नवह्नयादीनां सुप्रसिद्धत्वे सिद्धसाधनत्वापत्तेः, तदवच्छिन्नैर्व्याप्तित्वे चानुगमाभावात्, नहि धूमसामान्यस्य पर्वतादिस्थैरग्निविशेषैस्नुगमोऽस्ति पर्वतीयवभावेऽपि धूमसामान्यस्योपलम्भात् । विशेषाणां सामान्येनापि न व्याप्तिः, पूर्वोदितविधिना सिद्धसाधनत्वापत्तेः पर्वतीयधूमाभाववति महानसादौ वह्निसामान्यस्य वृत्त्या व्यभिचाराच । नापि विशेषाणां विशेषैः, तेषामानन्त्येन दुर्प्रहात् । अत्रोच्यते, I सामान्यविशेषवतस्सामान्यविशेषवता व्याप्तिस्तग्राहकस्तर्क:, अत एव यावान् कश्चिद्धूम इत्याद्यभिलापकं वाक्यमुक्तं तत्र यावत्पदेन सामान्यस्य कश्चिदित्यनेन विशेषस्य बोधः, तत्रापि न सामान्यविशेषौ केवलौ व्याप्यव्यापकभावेनानुभूयेते, किन्तु जात्यन्तरस्य सामान्यविशेषोभयात्मनस्तद्रूपतृयाऽवभासनादिति ॥
: ३६५ :
10
• १. अत्र वैशेषिका : सामान्ययोर्नाविनाभावः सिद्धसाधनात्, अपास्तविशेषं हि व्याप्ति सामान्यं सिद्धं, नियतदेशकालावच्छेदेन विशेषार्थिनां प्रवृत्तिनिवृत्त्योर भावप्रसङ्गाच्च । न च विशेषयोर विनाभावः तेषामानन्त्येनाप्रसिद्धेः तदायत्तस्याविनाभावस्य च प्रसिद्धेः । यावतामुपलम्भस्तावत्स्वेवाविनाभावग्रहणे च नागृहीताविनाभावस्य विशेषस्योपलम्भादनुमानं स्यात् नैतदूषणम् सामान्यवतोरविनाभावग्रहणाभ्युपगमात् ॥ २. वह्निर्हि धूमं व्याप्नोति धूमश्च वह्निना व्याप्यत इति व्याप्तिर्वह्निधूमयोर्धर्मः यत्र धर्मिणि पर्वतादौ सर्वत्रेति व्यभि चारवारणाय, सत्त्वमेवेति बाधवारणाय । तत्रैवेति व्यभिचारवारणाय ॥
t
15
अधुनाऽनुमानलक्षणघटकव्याप्तिस्मरणविषयभूतां व्याप्तिमाह—
तौ साध्याभाववदवृत्तित्वं व्याप्तिः । इयमेवाऽन्यथाऽनुपपत्तिप्रतिधन्धाविनाऽभावशब्दैरुच्यते । वहिं विना धूमस्यानुपपत्तेर्वह्निसत्त्व एव धूमोपपत्तेश्च वह्निनिरूपिताऽन्यथाऽनुपपत्त्यादिशब्दवाच्या व्याप्तिर्धूमे वर्त्तते । अतो धूमो व्याप्यो निरूपकश्च वह्निर्व्यापकः । तथा च व्याप्यसत्त्वेऽवश्यं व्यापक सत्त्वं, व्यापकसत्त्व एव च व्याप्येन भवितव्यमिति 20 व्याप्यव्यापकभावनियमः सिद्ध्यति ॥
ताविति । यो हि व्याप्नोति यश्च व्याप्यते तयोरुभयोर्धर्मो व्याप्तिः, यदा व्यापक