________________
: ३६४: तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे दिस्यायनुमानदर्शनात् । तत्रापि कथश्चित्कालाकाशादीनां पक्षत्वकल्पने काककाष्येन हेतुना प्रासादधावल्यस्यापि साध्यत्वप्रसङ्गरस्यात्तत्रापि कथञ्चिजगतः पक्षत्वसम्भवात् । जगत् प्रासादधावल्ययोगि, काककार्ययोगित्वादिति । जगतः पक्षत्वस्य लोकविरुद्धस्वे कालाकाशादीनामननुभूयमानत्वेन लोकविरुद्धत्वं तुल्यमेव, क्लिष्टकल्पनापत्तिश्च । नापि सपक्ष5 सत्त्वं गमकं, सपक्षेऽसतोऽपि श्रावणत्वादेशब्दानित्यत्वे ममकत्वप्रतीतेः । न च श्रावण. त्वस्यासाधारणत्वादनैकान्तिकत्वमिति वाच्यम् , यद्यदसाधारणं तत्तदनैकान्तिकमिति व्याप्त्यसिद्धेः सपक्षविपक्षासत्त्वेन निश्चितेऽपि श्रावणत्वे पक्षान्त वेणाविनाभावग्रहसम्भवात् । अन्यथा सर्वानित्यत्वे साध्ये सत्त्वादेर्हेतुत्वं तव न स्यात् । नापि सपक्षविपक्षयोरसत्त्वेन संशयितत्वादसाधारणः, श्रावणत्वादेस्तदसत्त्वेनैव निश्चयात् । तस्मानिश्चितान्यथानुपपत्ति10 रेव हेतो रूपं तच्चासिद्धादिहेतौ न सम्भवत्येवेति किं त्रिरूपेण । एवं पश्चरूपत्वमपि न हेतु.
लक्षणं, अग्निजन्योऽयं धूमस्सत्त्वात्पूर्वोपलब्धधूमवदित्यादौ पक्षे धूमे हेतोस्सत्त्वस्य सपक्षे पूर्वदृष्टभूमे च सत्त्वात् खरविषाणादौ विपक्षेऽसत्त्वात् पक्षे बाधाभावात्साध्याभावसाधकानुमानासम्भवाच्च पश्चरूपत्वेऽक्षतेऽप्यगमकत्वात् , न च यावद्विपक्षावृत्तित्वं हेतोर्नास्तीति
वाच्यम् , तस्यैवान्यथानुपपत्तिरूपत्वेन हेतुलक्षणत्वे शेषाणामकिश्चित्करत्वात्। एवमबाधित15 विषयत्वं निश्चितमेव हेतुलक्षणमिष्टं भवतस्तन्निश्चयश्च न सम्भवति, तन्निश्चयसाध्यनिश्चय
योरन्योऽन्याश्रयात् । सति हि हेतौ बाधितविषयत्वाभावनिश्चये साध्यनिश्चयस्तन्निश्चये च बाधितविषयत्वाभावनिश्चय इति, न च प्रमाणान्तरेण बाधितविषयत्वाभावनिश्चयान्नान्योs· न्याश्रय इति वाच्यम् , तस्याकिश्चित्करत्वात् , कुतश्चिद्वाधनाभावनिश्चये कुतश्चित्साध्याभाव
स्यापि सद्भावसम्भवात् । नन्वविनाभावोऽपि हेतुलक्षणं माभूत् अन्योऽन्याश्रयात् , साध्य20 सद्भावनिश्चये व्याप्तिनिश्चयात् तन्निश्चये च साध्यनिश्चयादिति मैवम् व्याप्तिनिश्चये साध्य
निश्चयस्याप्रयोजकत्वात् तर्काख्यप्रमाणान्तरादेव तन्निश्चयात् । न च हेतावविनाभावनिवायकेन तर्केणैव साध्यस्यापि सिद्धेहे तोरकिश्चित्करत्वं स्यादिति वाच्यम् , हेतुना देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् तर्कात्तु सामान्यत एव सिद्धत्वात् । एवमसत्प्रतिप
१. शब्देऽनित्यत्वसद्भाव एव श्रावणत्वोपपत्तिरूपतथोपपत्तिसम्भवादिति भावः ॥ २. सत्त्वस्य विपक्षावृत्तित्वेन निश्चितत्वेऽपि सपक्षावृत्तित्वनिश्चयतो गमकत्वं सत्त्वस्य न स्यात् न च तत्र सपक्ष एव नास्ति इति वाच्यम्, विद्यमाने सपक्षे हेतोरवृत्तित्वनिश्चयस्य गमकतायामनङ्गत्वादिति तात्पर्यम् ॥ ३. तण व्याप्तिग्रहणवेलायां हि न पर्वतादीनां भानं सर्वत्रानुवृत्त्यभावात् । तद्यनुमितौ पक्षः कथं भासत इति चेत् हेतुग्रहणाधिकरणतया क्वचित्तद्भानम् । हेतोर्हि ग्रहः पर्वतादौ जातोऽतस्साध्यस्यापि तत्रैवेति तद्भानम् । क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया, अस्ति नभसि चन्द्रो जलचन्द्रादित्यादौ नभसि हेतोरग्रहेऽपि नभसि चन्द्रास्तित्वं विना जलचन्द्रानुपपत्तेरन्यथानुपपत्त्यवच्छेदकतया मभसो भानमिति ॥