________________
आरोपनिरूपणम्
(८९) सत इति विपरीताख्यातिरूपमिदम् । स्मरणश्च चाकचिक्यादिसमानधर्माणां शुक्तौ दर्शनाद्भवति ॥ ___ एवं बाष्पधूलीपटलादौ धूमभ्रमावह्निविरहिते देशे वह्नयनुमानमयं देशो वह्निमानिति । क्षणिकाक्षणिके वस्तुनि बौद्धागमात्सर्वथा क्षणिकत्वज्ञानं, भिन्नाभिन्नयोर्द्रव्यपर्याययोर्नैयायिकवैशेषिकशास्त्रत एकान्तभेदज्ञानं, नित्यानित्यात्मके शब्दे मीमांसकशास्त्रत एकान्तनित्यत्वज्ञानमित्यादीनि विपरीतोदाहरणानि ॥
अनिश्चितनानांशविषयकं ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति ज्ञानम् । इदञ्च स्थाणुत्वपुरुषत्वान्यतरनिश्चायकप्रतिषेधकप्रमाणाभावादारोहपरिणाहात्मकसाधारणधर्मदर्शनात्कोटिद्वयविषयकस्मरणाच समुन्मिपति । अयं प्रत्यक्षर्मिकः संशयः। परोक्षधर्मिविषयको यथा कचिद्वनप्रदेशे शृङ्गमात्रदर्शनेन किं गौरयं गवयो वेति संशयः॥
विशिष्टविशेषास्पर्शि ज्ञानमनध्यवसायः । यथा गच्छता मार्गे किमपि मया स्पृष्टमिति ज्ञानम् । अयमनध्यवसायः प्रत्यक्षविषयः। परोक्षविषयस्तु गोजातीयपरिज्ञानविधुरस्य विपिननिकुळे सारनामात्रदर्शनेन सामान्यतः पिण्डमात्रमनुमाय प्रदेशेऽ