________________
अर्थप्रकाशवृत्तिसहितं
१५ महती चासौ मोहनिद्रा च महामोहनिद्रा, जगतां-जगद्वजिनानां महामोहनिद्रा जगन्महामोहनिद्रा, तस्यां प्रत्यूषसमयोपमं प्रत्यूषलक्षणः समयः-कालस्तस्य उपमा-सादृश्यं यस्य तत्तथा प्रातःकालसदृशमित्यर्थः । यथा प्रातःकालेन जगन्निद्रा प्रलीयते एवं भगवदेशनावचनेन महामोहोऽपि विलयमुपयातीति तथा । यथा तेन घटपटादयः पदार्थाः प्राकट्यमभुवते तथा भगवद्वचनेनाऽपि ते तदिअतीति युक्तोयमुपमानोपमेयभावः ॥ २२ ॥.. । लुठन्तो नमतां मूर्भि, निर्मलीकारकारणम् ।
वारिप्लवा इव नमः, पान्तु पादनखांशवः ॥ २३ ॥ . लुठन्तो नमतामित्यादि । नमेरेकविंशप्रभोः पादयोश्चरणयोनखाः-नखराः तेषामंशवः-किरणाः 'वः' युष्मान् 'पान्तु' रक्षन्तु। किं कुर्वन्तः पादनखांशवः ? 'लुठन्तः' पतन्तः । कुत्र ? 'मूर्ध्नि मस्तके । केषाम् ? 'नमतां' प्रणतिभाजां जनानाम् । पुनः किंरूपाः पादनखांशवः ? 'निर्मलीकारकारणं वारिप्लवा इव' अनिर्मलस्य निर्मलस्य करणं निर्मलीकारस्तस्य कारणं-निमित्तं इवोत्प्रेक्षते, वारिप्लवा ईव-पयःप्रवाहा इव तेऽपि मूर्ध्नि पतन्तो नैर्मल्यहेतवो भवन्ति । उत्प्रेक्षणीया अपि प्रणमज्जनमूर्ध्नि निपतन्तः तेषां पावित्र्यकारणं भवन्तीति ॥ २३ ॥ .
यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । ___अरिष्टनेमिभेगवान्, भृयाद् वोरिष्टनाशनम् ॥२४॥
यदुवंशेत्यादि । अरिष्टनेमिभगवान् द्वाविंशस्तीर्थेशः '' युष्माकं अरिष्टनाशनो भूयात्-भवतादिति । अरिष्टं-अशुभं नाश