SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [<] गाथा ||..|| दीप अनुक्रम [s] कल्प. सुबो व्या० १ ॥ १४ ॥ Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [१] मूलं [८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: मर्त्ययोने: समुद्भूतो, भविता च पुनस्तथा ॥ ५ ॥ मायालोभक्षुधालस्यवाहारादिचेष्टितैः । तिर्यग्योनेः समुत्पत्तिं, ख्यापयत्यात्मनः पुमान् ॥ ६ ॥ सरागः खजनद्वेषी, दुर्भाषो मूर्खसङ्गकृत् । शास्ति स्वस्य गतायात, नरो नरकवर्त्मनि ॥ ७ ॥ आवन्तों दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेतिनिन्द्यः स्यादिगन्यत्वे तु मध्यमः ॥ ८ ॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःखा, दुःखिता नात्र संशयः ॥ ९ ॥ अनामिकाऽन्त्यरेखायाः, कनिष्ठा स्याद्यदाऽधिका । धनवृद्धिस्तदा पुंसां मातृपक्षो बहुस्तथा ॥ १० ॥ मणिबन्धात् पितुर्लेखा, करभाद्विभवायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरम् ॥ ११ ॥ 9 येषां रेखा मास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोवधनायूंषि, सम्पूर्णान्यन्यथा न तु ॥ १२ ॥ उल्लङ्घयन्ते च यावत्योऽङ्गुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावत्यः शरदां बुधैः ॥ १३ ॥ यवैरंङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः ॥ १४ ॥ न स्त्री त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य, न मांसापचितं सुखम् ॥ १५ ॥ चक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनम् । वपुः स्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम् ॥ १६ ॥ उरोविशालो धनधा न्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥ १७ ॥ इमानि लक्षणानि, व्यञ्जनानि च-मपतिलकादीनि तेषां ये गुणास्तैरुपेतं पुनः किंवि० ( माणुम्माणपमाण| पडिपुन्नसुजायसवंग सुंदरंगति) तत्र मानं-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं For File & Fersonal Use Only ~46~ लक्षणवर्णनं २० २५ ॥ १४ ॥ २८ wjanebary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy