SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घाते ॥५३॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [-], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः मंगलत्रय कता स्य मङ्गलमुच्यते एवं मङ्गलान्तरमपि वक्तव्यम्, आद्यमङ्गलाभिधानेऽपि तस्य तथैवामङ्गलत्वात् एवं मङ्गलान्तराभिधानेऽप्यम्यन्मङ्गलान्तरमभिधातव्यं, न्यायस्य समानत्वाद्, तत्राप्यन्यदित्यनवस्था, अथाभिन्नमिति पक्षः तर्हि शास्त्रमेव मङ्गल स्यावश्यमित्यन्यमङ्ग उोपादानमनर्थकं, अमङ्गले हि मङ्गलमुपादीयते यस्तु स्वत एव मङ्गलं तत्र किं मङ्गलविधानेन ?, नहि शुक्लं शुक्कीक्रियते, नापि स्निग्धं स्नेह्यते, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयते तर्हि तेनापि मङ्गलीभूतस्यान्यन्मङ्गलमुपादातव्यं, मङ्गलरूपत्वाविशेषात्, तत्राप्यन्यदित्यनवस्था, अथ मा भूत् प्रस्तुतार्थक्षितिरित्यनवस्था नेष्यते तर्हि शास्त्रस्यामङ्गलत्वप्रसङ्गः, कथमिति चेत्, उच्यते, इह यथा शास्त्रं स्वतो मङ्गलमपि अन्यमङ्गलनिरपेक्षममङ्गलं, अन्यथा अन्यमङ्गलोपादाननैरर्थक्यप्रसक्तेः, यदि हि अन्यमङ्गलनिरपेक्षमपि तन्मङ्गलं भवेत् तर्हि नान्यमङ्गलमपेक्षेत, स्वतः समर्थस्यान्यव्यपेक्षाया अयोगात्, अन्यमङ्गलव्यपेक्षा चेत् नूनममङ्गलता, तस्य स्वरूपत एवं मङ्गलस्याप्यन्य मङ्गलशून्यस्यामङ्गलतेति, अनवस्थाऽनिष्टौ मङ्गलममङ्गलं, तद्योगाच्छास्त्रमप्यमङ्गलमित्यमङ्गलता शास्त्रस्येति, अत्रोच्यते, इहाद्यः पक्षस्तावनाभ्युपगम्यते, ततोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति, यदिवा सोऽप्यभ्युपगम्यते, न च प्रागुकदोपावकाशः, यतो द्विविधानि जगति वस्तूनि - भाव्यानि अभाव्यानि च तत्र काचादीन्यभाव्यानीति न तानि वैडूर्यरूपतया कर्त्तुं शक्यन्ते, शास्त्राणि तु भाव्यानि ततः स्वरूपेणामङ्गलान्यपि तानि मङ्गलरूपतया परिणम्यन्ते, मङ्गलस्य स्वपरतद्रूपताऽऽपादने । समर्थत्वात्, लवणप्रदीपादिवत् यथा हि प्रदीपः स्वपरप्रकाशनसमर्थत्वात् स्वं परं च प्रकाशयति, यथा वा लवणं स्वपरलवणिमस्वभावापादने समर्थतया स्वं परं च लवणयति, एवं मङ्गलमपि स्वपर For Pete & Personal Use Only ~21~ ॥ २ ॥ wjanslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy