________________
प्रवरमअरी.
राहुगण्यगौतमेति । सौमराजकीनां आङ्गिरससौमराज्यगौतमेति । वामदेवानामाङ्गिरसवामदेव्यगौतमेति । बृहदुक्थानामाङ्गिरसबाहदुक्थगौतमेति - पृषदश्वानामाङ्गिरसपार्षदश्ववैरूपेति । ऋक्षाणामा। ङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति । कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति।दीर्घतमसामाङ्गिरसौचथ्यदैर्घतमसेति ॥
इदमाश्वलायनोक्तं गौतमगोत्रप्रवरकाण्डमुदाहृतम्.
अथेदानीं एतानि गौतमगोत्रकाण्डानि व्याख्यास्यामः-यदुक्तमधस्तनभृगुगोत्रकाण्डव्याख्याने उपलक्षणमस्माभिः ‘इहोदाहृतेषु गोत्रकाण्डेषु' इत्यारभ्य 'व्याख्यास्यामः'* इत्यन्तेन भाष्येण तत्सर्वमिहापि गौतमगोत्रकाण्डोपक्रमे द्रष्टव्यं, तुल्यत्वात् । इहोदाहृतानां गौतमगोत्रगणानां मध्ये पृषदश्वानामृक्षाणामाश्वलायनोक्तानां गौतमवरणादर्शनादुत्तरत्र वक्ष्यमाणरथीतरभरद्वाजैश्च सह समानप्रवरत्वश्रवणात्तत्रैवोत्कर्षः, तैश्च सहाविवाहो द्रष्टव्यः; तथैवान्यैस्सूत्रकारैर्वक्ष्यमाणत्वात् । इह तु गौतमगणमध्यपाठे कारणं किमप्याश्वलायनबुद्धिगम्यमस्तीति कल्प्यम् । उत्तरत्र पाठे तु विस्पष्टं कारणमस्तीत्युक्तम् ॥ इहापि गणाः प्रवराश्च निगदव्याख्यातत्वा. न्न व्याख्येयाः । इह च यत्रयत्रैकस्मिन्नेव गणे प्रवरऋषीणामेकद्वित्रिसङ्ख्याविषया क्रमविषया च विप्रतिपत्तिदृश्यते सूत्रकाराणां तत्रतत्रोक्तप्रयोगावलम्बिनामेव ते प्रवरा इति प्रयोगकृतव्यवस्था
*४५ पृष्टे.