________________
गौतमकाण्डम्, दैर्धतमसानां ध्यायः प्रवरो भवत्याङ्गिरसौतथ्यदैर्घतमसेति दीर्घतमोवदुतथ्यवदङ्गिरोवदिति ॥
॥ इति द्वितीयो गणः ॥
अयास्या गौतमा इत्येषामविवाहः । तेषां त्र्यायः प्रवरो भवति । आङ्गिरसायास्यगौतमेति। गौतमवदयास्यवदङ्गिरोवदिति ॥
॥ इति तृतीयो गणः ॥
अयास्यौशिजा गौतमा इत्येतेषां पञ्चायः प्रवरो भवत्याङ्गिरसायास्यौशिजगौतमकाक्षीवतेति । कक्षीवगौतमवदुशिजवदयास्यवदङ्गिरोवदिति ॥
॥ इति चतुर्थो गणः ॥
अस्मिन्गौतमकाण्डे तत्रतत्राध्वर्युप्रवरेष्वङ्गिरस्वदङ्गिरस्वदिति लौगा
क्षिपाठो द्रष्टव्यः ॥ इति कात्यायनलौगाक्षिप्रणीतं गौतमगोत्रकाण्डमुदाहृतम् ।
अथाश्वलायनीयं गौतमगोत्रकाण्डमुदाहरिष्यामःगौतमानामाङ्गिरसायास्यगौतमेति । उतथ्यानामाङ्गिरसौतथ्यगौतमेति । राहुगणानामाङ्गिरस