________________
प्रवरमञ्जरी. अतःपरं अत्रीणां गोत्रप्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु केवलात्रयो वाग्भूतका गविष्ठिरा अतिथयः पुत्रिकापुत्राश्चेत्यादयो गोत्रगणाः । प्रतिगणं च प्रवरा उपदिष्टाः । अत्रिगणानां सर्वेषां परस्परमविवाहश्चोपदिष्टः ॥ . अत्रिगणानन्तरं विश्वामित्रगोत्रप्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु च देवराता रौक्षका लोहका लोहिताः
औमताः कता धनञ्जया अघमर्षणाः पूरणा इन्द्रकौशिका आजायनाः रेवणा इत्याद्या गणाः । प्रतिगणं च प्रवरास्तत्सङ्ख्यावोपदिष्टाः । विश्वामित्रगणानां सर्वेषां परस्परमविवाहश्योपदिष्टः ॥
तदनन्तरं काश्यपानां गोत्रप्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु च निध्रुवा रेभाश्शाण्डिला लोगाक्षा इत्याद्या गणाः । प्रतिगणं च प्रवरास्तत्सङ्याश्योपदिष्टाः । कश्यपगणानां सर्वेषां परस्परमविवाहश्योपदिष्टः ॥ .
तदनन्तरं वसिष्ठानां गोत्रप्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु च केवलवसिष्ठा उपमन्यवः पराशराः कुण्डिनास्संकृतयश्चेति च गणाः । प्रतिगणं च प्रवरास्तत्सङ्चाश्योपदिष्टाः । वसिष्ठगणानां सर्वेषां परस्परमविवाहश्वोपदिष्टः ॥
तदनन्तरं अगस्तीनां गोत्रप्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु चेमवाहाः साम्भवाहाः सोमवाहा यज्ञवाहा माहेन्द्राः पौर्णमासाश्चेति गोत्रगणाः । प्रतिगणं च प्रवरास्तत्सड्याश्योपदिष्टाः । अगस्तिगणानां सर्वेषां परस्परमविवाहश्योपदिष्टः ॥
तदनन्तरं क्षत्रियाणामात्मीयप्रवरः पुरोहितप्रवरश्योपदिष्टः । पुरोहितगोत्रैः पुरोहितप्रवरैश्च सह क्षत्रियाणामविवाहो नोपदिष्टः, प्राप्त्यभावात् ॥